पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५ सर्ग.] धर्मशर्माभ्युदयम् । उपदग्धमधिरोप्य लाञ्छनच्छद्मनात्मभुवमङ्कमात्मनः । ओषधीरसनिषेवणैरिवोज्जीवयन्तमुदितौषधीश्वरम् ॥१५॥ कौमुदीरसविलासलालसं मीनकेतुनृपते. पुरोधसम् । कामिनीषु नवरागसंभ्रमाद्वैतवादिनमतिग्मतेजसम् ॥ १६ ॥ (इति पाठान्तरम्) सर्वथाहमपदोष एव कि ध्यामलो जन इति प्रतिज्ञया । लब्धशुद्धिमुडुदिव्यतण्डुलैश्चचितैरिव कृतोत्सव रविम् ॥ ६ ॥ स्तम्भितभ्रमितकुञ्चिताञ्चितम्फारितोदलितवेल्लितादिमिः । प्रक्रमैर्विहरदम्बुधौ युग मीनयोर्नयनयोरिव श्रिय ॥१८॥ प्राग्रसातलगतस्य तत्क्षणान्निर्यत सुकृतमत्तदन्तिन । कुम्भयोरिव युग समौक्तिक शातकुम्भमयपूर्णकुम्भयो ॥ १९ ॥ अभ्युपात्तकमलै केवीश्वरै सश्रुत कुवलयप्रसाधनम् । द्रावितेन्दुरसरागिसोदर सच्चरित्रमिव निर्मल सर ॥ ७० ॥ पीवरोच्चलहरिव्रजोडुरं सज्जनक्रमकरं समन्ततः । अब्धिमुग्रतरवारिमज्जितक्ष्माभृत पतिमिवावनीभुजाम् ॥ ७१ ।। स्वस्वदीधितिपरिग्रहग्रगामवेष्टितमिवाद्रिशेखरम् । चित्ररत्नपरिवेषमुच्चकैश्चारुहेमहरिणारिविष्टरम् ॥ ७२ ॥ अश्मगर्भमणिकिङ्किणीचयै. सानुभावमकृताश्रयैरिव । दिव्यगन्धहृत्तलोलषट्पदैः सस्वनै सुरविमानमन्वितम् ॥ ७३ ॥ मत्तवारणविराजित स्फुरद्वज्रहेतिभरतोरणोल्वणम् । लोलकेतुपृतनाकदम्बक नाकिनामिव विमानमम्बरे ॥ ७४ ॥ (इति पाठान्तरम्) १ महादेवभस्मीकृतम् २ जलपक्षिश्रेष्ठ ३ पीबरोच्चल-हरिनजोद्धरम् , (पो) पीवगेच्च लहरि व्रजोद्भुरम् ४ सजन-क्रमकरम् , (पक्षे) सब-नक्रमकरम् ५ उग्र- तर-वारि, (पक्षे) उप्र-तरवारि ६. क्षमाभृतो राजान पर्वताश्च ७ मत्सवारणो वर- ण्डक , (पक्षे) मत्तगज ८ हीरकप्रभाभरनिमिततोरणेन, (पक्षे) पविरूपायुधातिशयत स्रनामोल्म्बणम्