पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ सर्गः धर्मशर्माभ्युदयम् ।

इति व्यावर्णितो जीवश्चतुर्गत्यादिभेदतः । संप्रत्यजीवतत्त्वस्य किचिद्रूप निरूप्यते ॥ ८० ॥ धर्माधर्मों नम. काल' पुद्गलश्चेति पञ्चधा । अजीव कथ्यते सम्यग्जिनस्तत्त्वार्थदर्शिभिः ॥ ८१ ॥ षड्दव्याणीति वर्ण्यन्ते सम जीवन तान्यपि । विना कालेन तान्येव यान्ति पञ्चास्तिकायताम् ।। ८२ ॥ धर्म स तात्त्विकैरुक्तो यो भवेद्गतिकारणम् । जीवादीना पदार्थाना मत्स्यानामुदक यथा ॥ ८३ ॥ छायेव धर्मतप्तानामश्वादीनामिव क्षिति । द्रव्याणा पुद्गलादीनामवर्म स्थितिकारणम् ॥ ८४ ॥ लोकाकाशमभिव्याप्य स्थितावेतावनिष्क्रियौ । नित्यावप्रेरकौ हेतू मूर्तिहीनावुभावपि ।। ८५ ॥ पुद्गलादिपदार्थानामवगाहैकलक्षण । लोकाकाश. स्मृतो व्यापी शुद्धाकाशो बहिस्ततः ॥ ८६ ॥ धर्माधर्मकजीवा स्युरसख्येयप्रदेशका । व्योमानन्तप्रदेश तु सर्वज्ञै प्रतिपाद्यते ॥ ८७ ॥ जीवाटीना पदार्थाना परिणामोपयोगतः । वर्तनालक्षणः कालोऽनंशो नित्यश्च निश्चयात् ।। ८८|| कालो दिनकरादीनामुदयास्तत्कियात्मक । औपचारिक एवासौ मुख्यकालस्य सूचक ।। ८९ ॥ रूपगन्धरसस्पर्शशब्दवन्तश्च पुद्गला. । द्विधा स्कन्धाणुभेदेन त्रैलोक्यारम्भहेतव ॥ ९ ॥ भूमितैलतमोगन्धकर्माणुप्रकृति क्रमात् । स्थूलास्थूलादिभेदाः स्युस्तेषा षोढा जिनागमे ॥ ११ ॥ भाषाहारशरीराख्यप्राणापानादिमूर्तिमत् । यत्किंचिदस्ति तत्सर्व स्थूलं सुक्ष्म च पुद्गलम् ॥ १२ ॥