पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

रत्नज्योतिर्भासुरे तत्र पीठे तिष्ठन्देव शुप्रभामण्डलस्थ । क्षीराम्भोधे सिच्यमानः पयोभिर्भूयो रेजे काश्चनाद्राविवोच्चै ॥१२॥ गायन्नादेनेव भृङ्गागनाना नृत्यल्लोले- पल्लवानामिवौधै । कि ब्रूमोऽन्यत्तस्य वृत्तं गुणौवैर्जज्ञे रक्तो यस्य वृक्षोऽप्यशोक ॥ ९३ ॥ वृष्टिः पौष्पी सा कुतोऽभून्नभस्त संभाव्यन्ते नात्र पुष्पाणि यस्मात् । यद्वा ज्ञात द्रागनङ्गस्य हस्तादहद्धीत्या तत्र बाणा निपेतुः ॥ १४ ॥ आविर्भूतं यद्भवद्भूतभावि ज्ञानाकार तुल्यमिन्दुत्रयेण । अव्याबाधामातपत्रत्रय तत्तस्यावोचद्भूत्रयैश्वर्यलक्ष्मीम् ॥ ९५ ॥ छाया कायस्यास्य सेवोपसर्पदास्वच्चक्रणेव भामण्डलेन । क्षिप्ता नान्तश्चेत्कथ तत्प्रपेदे तीवा चेतस्तापसपत्प्रशान्तिम् ॥ ९६ ॥ रेजे मुक्तिश्रीकटाक्षच्छटामा पार्श्व पतिश्चामराणा जिनस्य । ज्ञानालोके निष्फलानामिवेन्दो सामुच्चैर्दण्डनियन्त्रितानाम् ॥ ९७ ॥ अप्युगीवै. श्रूयमाणा कुरझै. कर्णान्यर्णस्फारपीयूषधारा । आ गव्यूतिद्वन्द्वमभ्युल्लसन्ती दिव्या भाषा कस्य नासीत्सुखाय ।। ९८ ।। केय लक्ष्मी केश निःस्पृहत्व केद ज्ञान क्वास्त्यनौद्धत्यमीक् । रेरे ब्रूत द्राकुतीर्था इतीव ज्ञाने भर्तुर्दुन्दुभिव्योम्यवादीत् ॥ ९९ ।। लास्योल्लासा वाद्यविद्याविलासा गीतोद्गारा कर्णपीयूषधारा । स्थाने स्थाने तत्र ते ते बभूवुश्छायाप्यस्मिन्दुर्लभासीद्यदीया ॥ १० ॥ इति निरुपमलक्ष्मीरष्टभि प्रातिहार्य- रतिशयगुणशाली केवलज्ञानभानुः । समवसरणमध्ये धर्मतत्त्व विवक्षु सुरपरिषदि तस्थौ धर्मनाथो जिनेन्द्र ॥ १०१ ॥ इति महाकविश्रीहरिचन्द्रविरचिते वर्मशर्माभ्युदये महाकाव्ये विशतितम सर्ग । एकविश सर्ग । तत्त्व जगत्रयस्यापि बोधाय त्रिजगद्गुरुम् । तमापृच्छदथातुच्छज्ञानपण्यापणं गणी ॥ १ ॥