पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७ सर्ग: धर्मशर्माभ्युदयम् ।

ताम्बूलरागोलणमोष्ठबिम्बं प्रमार्जयशोणकराङ्गुलीमिः । पिबन्निवालक्ष्यत दन्तकान्तिच्छलेन शृङ्गारसुधामिवान्यः ।। ११ ।। अथ प्रतीहारपदे प्रयुक्ता श्रुताखिलक्ष्मापतिवृत्तवंशा। प्रगल्भवागित्यनुमालवेन्द्रं नीत्वा सुभद्राभिदधे कुमारीम् ॥ ३२ ॥ अवन्तिनाथोऽयमनिन्धमूर्तिरमध्यमो मध्यमभूमिपाल । ग्रहा ध्रुवस्येव समग्रशक्तर्यस्यानुवृत्ति विदधुर्नरेन्द्राः ॥ ३३ ॥ त्रुट्यत्सु वेलाद्रितटेषु नश्यत्युदादिकुञ्जरचक्रवाले । यस्य प्रयाणे पटहप्रणादै स्पष्टाहासा इव रेजुराशाः ॥ ३४ ॥ निक्षत्रियादेव रणानिवृत्तो विनार्थिनं कामपुषश्च दानात् । अभूत्करः केवलमस्य कान्तापृथुस्तनाभोगविभोगयोग्य ॥ ३५ ॥ अस्येदमावर्जितमौलिमालाभृगच्छलेनाङ्गियुगं नरेन्द्राः । के के न भूपृष्ठलुठल्ललाटभ्रष्टोद्भटभृकुटय प्रणेमुः ॥ ३६ ॥ एन पति प्राप्य दिवाप्यवन्तीप्रासादशृङ्गाग्रजुषस्तवायम् । सिप्रातटोद्यानचकोरकान्तानेत्रोत्सवायास्तु चिर मुखेन्दुः ॥ ३७ ॥ तत सुभद्रावचनावसाने श्रीमालवेन्द्रादवतारिताक्षीम् । नीत्वा नरेन्द्रान्तरमन्तरज्ञा पतिवरा ता पुनरित्यवोचत् ॥ ३८ ॥ दुष्कर्मचिन्तामिव यो निषेद्धं विवेश चित्ते सतत प्रजानाम् । विलोक्यता दुर्नयवह्निपाथः सोऽयं पुरस्तान्मगधाधिनाथः ॥ ३९ ॥ मुख समुत्सारितकण्टकस्य बश्राम कीर्तिर्भुवनत्रयेऽस्य । विशालवक्षःस्थलवासलुब्धा दूरान्नृपश्री पुनराजगाम ॥ ४० ॥ महीभुजा तेन गुणैर्निबद्ध गोमण्डलं पालयता प्रयत्नात् । अपरि पूरै पयसामिवान्तर्ब्रह्माण्डमाण्ड विगदैर्यगोभि ॥ ११ ॥ ज्ञातप्रमाणस्य यशोऽप्रमाण वृद्धास्य जज्ञे तरुणस्य लक्ष्मीः । देवात्ततोऽतुल्यपरिग्रहस्य त्वमेव कल्याणि भवानुरूपा ॥ ४२ ॥ विदारयन्ती विषमेपुशक्त्या मर्माणि तस्मादहितस्वरूपात् । आकृष्यमाणापि तया प्रयत्नात्पराङ्मुखी चापलतेव साभूत् ।। ४३ ॥१ 'क्षुद्रशत्रश्च कण्टक २ भूमण्डल, धेनुसमूह च.