पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सनाखासखेल; समशेरबहादुर; फर्जद-इ-खास-इ-दौलत-इ-इंग्लिशिया; जी. सी. एस्. आय्.; जी. सी. आयू. ई; एल्. एल्. डी. इत्यादिगुणलक्षणोपाधिधारिणां बटोदरराज्यपतीनां पतितपावनानां परमोदाराणां प्रजायाः पालन - विनयाधानादि श्रेयस्कर- राज्यतन्त्रनिपुणभूभृदग्रणीनां सयाजीराव महाराजानां कर्मसु नित्याविरतप्रवृत्तिं, प्राचीनार्वाचीन विविध विद्या-कला-शिल्प प्रस्थानभेदानां आविष्करण संरक्षण- संशोधन संस्करण प्रकाशनाध्ययनाध्यापनादिप्रयत्नेषु भारतीय विद्वत्समाजस्य मार्गदर्शकत्वं, विशेष तोऽस्मदङ्गीकृते भारतीय संस्कृते रितिहासस्य विशेषसाधनीभूते धर्मशास्त्रसंकलनात्मक-धर्मकोश- कार्ये परमप्रीतिं चावधार्य तत्करसरोजयोः समर्प्यते इदं धर्मकोशस्य व्यवहारकाण्डम् तत्रभवतां विधेयाः संपादकाः