पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१०

विकिस्रोतः तः
(पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf.pdf/१० इत्यस्मात् पुनर्निर्दिष्टम्)
पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

निवेदना ।


 एष समारम्भस्तस्य व्यापारस्य, योऽत्रत्यराजकीयग्रन्थशालास्थितानां प्राचीनग्रन्थानां मुद्रणेन प्रकाशनं नाम महामहिम्ना श्रीमूलकरामवर्मवञ्चिमहाराजेन सदयमाज्ञप्त इति भक्तिमञ्जर्याः परुत्प्रकाशिताया उपोद्घाते न्यवेदयम् । एतस्याम् 'अनन्तशयनसंस्कृतग्रन्थावलौ' दैवनामा व्याकरणग्रन्थः पुरुषकाराख्यया व्याख्यया सनाथः प्राथम्येन प्रकाशयितुमयमुपात्तः ॥

 दैव[१]मिति कर्त्तृसम्बन्धनिबन्धनेयं समाख्या देवेन तन्नाम्ना विदुषा कृतं प्रकरणमित्यर्थात् । अस्य ग्रन्थस्याकरो मैत्रेयरक्षित-क्षीरस्वामि-धनपाल-शाकटायनादिप्रणीता [२]धातुवृत्त्यादिग्रन्थाः । तत्राप्यनेन मैत्रेयरक्षितमतमेव प्रायशोऽनु[३]गम्यते । पाणिनीयधातुपाठे सकृत् पठितानां धातूनां ये पुनःपाठा एकस्मिन् विकरणे विकरणान्तरे वा दृश्यन्ते, तेषां फलं--तच्चार्थात् सारूप्येण पठितानां धातूनां फलम् अस्य ग्रन्थस्य विषयः । फलञ्च धातु-तदर्थ-विकरणानि व्यस्तानि समस्तानि यथासम्भवं मिलितानि चोपादाय लटा लिङा लङा वा रूपभेदनिर्देशमात्रात् प्रायः सूच्यते । क्वचित्क्वचित्तु फलविशेषो वचनेन प्रकाश्यते यथा--

"स्वरभेदाद्द्विरुच्यते" (५३पृ. ५५ श्लो.)
"इटा भिदा" (८६ पृ. ११६ श्लो.)

इत्यादौ । न केवलं 'भू सत्तायां' 'भू प्राप्तौ' इत्यभिन्नाकारतया पठिता एव सरूपाः, किन्तु अंशतो भेदेऽपि ये सदृशाः अकि-अङ्कि, निदृ-नेदृप्रभृतयः, तेऽपि सरूपा इह गृहीताः । सरूपाश्च धातवो यद्यप्यत्र सर्वे न विवृताः, तथापि भूयसां विवरणाच्छिष्यमाणाः सुग्रहा इति ग्रन्थकर्तुरभिसन्धिः । आह च--

'सरूपा धातवः केचिदनुक्ता अपि सन्ति चेत् ।
सन्तूक्तास्तेऽपि चात्रोक्ता न दुष्यन्त्यन्यसम्भवे ॥' (२००.श्लो.)

इति । धातवश्च यथासम्भवं मातृकाक्रममन्त्यवर्णविषयमाश्रित्य दर्शिताः । किन्तु भूधातुः परं धातुपाठे प्रथमः सत्ताख्यब्रह्मवाचितया माङ्गलिकश्चेति कृत्वा प्रथमं

व्युत्पादितः । व्युत्पित्सूनां च विषयधारणसौकर्याय ग्रन्थेऽस्मिन् पद्यबन्ध आदृतः;


  1. देवशब्दात् 'कृते ग्रन्थे' (४-३-११६) इत्यण्प्रत्यये दैवमिति रूपम्.
  2. एतास्तु धातुवृत्तयो न लब्धाः.
  3. ८. पृष्ठे दृश्यम्.