पृष्ठम्:दशरूपकम्.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः प्रकाशः । अतीतानां भाविनां च कथावयवानां ज्ञापको मध्यमेन मध्यमाभ्यां वा पात्राभ्यां प्रयोजितो विष्कम्भक इति । स द्विविध:~-शुद्धः संकीर्णश्चेत्याह- ___ एकानेककृतः शुद्धः संकीर्णो नीचमध्यमः। एकेन द्वाम्यां वा मध्यमपात्राभ्यां शुद्धो भवति । मध्यमाधमपात्रैर्य- गपत्नयोजितः संकीर्ण इति। अथ प्रवेशकः- तद्वदेवानुदात्तोत्तया नीचपात्रप्रयोजितः ॥ ६०॥ . प्रवेशोऽदयस्यान्तः शेषार्थस्योपमूचकः ।। तद्वदेवेति भूतभविष्यदर्थज्ञापकत्वमतिदिश्यते । अनुदात्तत्तया नीनेन नीची पात्रः प्रयोजित इति विप्क भरणापाद: । अङ्कद्रगम्यान्न इति प्रथमाङ्के प्रतिषेध इति । अथ चूलिका- ___ अन्तर्जवनिकासंस्थैलिकार्थस्य सूचना ।। ६१ ॥ नेपथ्यपात्रेणार्थसूचनं चूलिका । यथोत्तरचरिने द्वितीयाङ्कस्यादी---- नेपथ्यं ।। स्वागतं तपोधनायाः । ततः प्रविशति तपोधना ।।' इति नेपथ्य- पात्रेण वासन्तिकयात्रेयीमुचनाचूलिका। यथा वा वीरचरिते चतुर्था कस्यादौ-(पय ।। भो भो वैमानिकाः, प्रवयन्तां प्रवय॑न्तां मङ्गलानि । कृशाश्वान्तेवासी जयति भगवान्कौशिकमुनिः सहस्रांशोवंशे जगति विजयि क्षत्रमधुना । विनेता क्षबारे जगदभयदानवतधरः शरण्यो लोकानां दिनकरकुलेन्दुर्विजयते ।' इत्यत्र नेपश्यपात्रैर्देवै रामेण परशुरामो जित इति सूननाचूलिका । अथाङ्कास्यम्--- अङ्कान्तपात्रैरङ्कास्य छिन्नाङ्कस्यार्थसूचनात् । १. 'अन्ते' इति पाठ:. २. 'अन्तर्यवनिका' इति पारः. -..-. - .. . . .... .-.-.-. -... ---. . .--. -. -..-..... .....-. .- -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/६२&oldid=218302" इत्यस्माद् प्रतिप्राप्तम्