पृष्ठम्:दशरूपकम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः। कथं च काव्यात्स्वादोद्भूतिः किमात्मा चासाविति व्युत्पाद्यते-- स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः । विकाशविस्तरक्षोभविक्षेपैः स चतुर्विधः ।। ४३ ।। शृङ्गारवीरचीभत्सरौद्रेषु मनसः क्रमात् । हास्याद्भुतभयोत्कर्षकरुणानां त एवं हि ॥ ४४ ॥ अतस्तजन्यता तेषामत एवावधारणम् । काव्यार्थेन विभावादि संसृष्टस्थाय्यात्मकेन भावकचेतसः संभेदेऽन्योन्य- संचलने प्रत्यस्तमितस्वपरविभागे सति प्रबलतरस्वानन्दोद्भतिः स्वादः । तस्य च सामान्यात्मकल्लेऽपि प्रतिनियतविभावादिकारणमन्यत्वेन संभेदेन चतुर्धा चित्तभूमयो भवन्ति । तद्यथा-शृङ्गारे विकासः, वीरे विस्तरः, बीभत्से क्षोभः, रौद्रे विक्षेप इति । तदन्येषां चतुर्णा हास्याद्भुतभयानकक- रुणानां स्वसामग्रीलब्धपरिपोषाणां त एव चत्वारो विकासाद्याश्चेतसः सं. भेदाः । अत एव---- 'शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः । वीराचैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥' इति । हेतुहेतुमद्भाव एव संभेदापेक्षया दर्शितो न कार्यकारणभावाभिप्रायेण तेपा कारणान्तरजन्यत्वात् । 'शृङ्गारानुकृतियों तु स हास्य इति कीर्तितः।' इत्यादिना विकासादिसंभेदैकत्वस्यैव स्फुटीकरणाढवधारणमप्यत एवाटापिनि संभेदानां भावात् । ननु च युक्तं शृङ्गारवीरहास्यादिषु प्रमोदात्मकेषु वा. क्यार्थसंभेदादानन्दोद्भव इति । करुणादौ तु दुःखात्मकत्वे कथमिवासी प्रादुष्यात् । तथाहि । तत्र करुणात्मककाव्यश्रवणाहुःखाविर्भावोऽश्रुपाता- दयश्च रसिकानामपि प्रादुर्भवन्ति । न चैतदानन्दात्मकत्वे सति युज्यते । सत्यमेतत् । किंतु तादृश एवासावानन्दः सुखदुःखात्मको यथा प्रहरणादिषु संभोगावस्थायां कुट्टमिते स्त्रीणामन्यश्च लौकिकात्करुणात्काव्यकरुणः । त- थाह्यत्रोत्तरोत्तरा रसिकानां प्रवृत्तयः । यदि वा लौकिककरुणवदुःखात्म- कत्वमेवेह स्यात्तदा न कश्चित्तत्र प्रवर्तेत । ततः कारुण्यैकरसानां रामाय- णादिमहाप्रबन्धानामुच्छेद एव भवेदश्रुपातादयश्चेति वृत्तवर्णनाकर्णनेन वि- निपातितेषु लौकिकवैलव्यदर्शनादिवत्प्रेक्षकाणां प्रादुर्भवन्तो न विरुध्यन्ते । तस्माद्रसान्तरवत्करुणस्याप्यानन्दात्मकत्वमेव ।