पृष्ठम्:दशरूपकम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः प्रकाशः। चतुर्थः प्रकाशः । .: अथेदानी रसभेदः प्रदश्यते- विभावैरनुभावैध साचिकैर्व्यभिचारिभिः । आनीयमानः खाद्यत्वं स्थायी भावो रसः स्मृतः ॥१॥ वक्ष्यमाणस्वभावैर्विभावानुभावव्यभिचारिसात्त्विकैः काव्योपात्तैरभिनयोप- दर्शितैर्वा श्रोतृप्रेक्षकाणामन्तर्विपरिवर्तमानो रत्यादिक्ष्यमाणलक्षणः स्थायी स्वादगोचरतां निर्भरानन्दसंविदात्मतामानीयमानो रसः। तेन रसिकाः सा- माजिकाः । काव्यं तु तथाविधानन्दसंविदुन्मीलनहेतुभावेन रसवदायुर्घ- तमित्यादिव्यपदेशवत् । तत विभावः--- ज्ञायमानतया तत्र विभावो भावपोषकृत् । आलम्बनोद्दीपनत्वपभेदेन स च द्विधा ।। २॥ एवमयमेवमियमित्यतिशयोक्तिरूपकाव्यन्यापाराहितविशिष्टरूपतया ज्ञा- यमानो विभाव्यमानः सन्नालम्बनत्वेनोद्दीपनत्वेन वा यो नायकादिरभिमत. देशकालादिवा स विभावः । यदुक्तं विभाव इति विज्ञातार्थ इति, तांश्च यथास्वं यथावसरं च रसेषूपपादयिष्यामः । अमीपां चानपेक्षितबाह्यसत्त्वानां शब्दोपधानादेवासादिततद्भावानां सामान्यात्मनां स्वस्वसंबन्धित्वेन विभावि- तानां साक्षाद्भावकचेतसि विपरिवर्तमानानामालम्बनादिभाव इति न वस्तुशू- न्यता । तदुक्तं भर्तृहरिणा-'शब्दोपहितरूपांस्तान्बुद्धेविषयतां गतान् । प्रत्यक्षमिव कंसादीन्साधनत्वेन मन्यते ॥' इति । षट्सहस्रीकृताप्युक्तम्- 'एभ्यश्च सामान्यगुणयोगेन रसा निप्पद्यन्ते' इति । तत्रालम्बनविभावो यथा- 'अस्याः सर्गविधौ प्रनापतिरभूचन्द्रो नु कान्तिप्रदः शृङ्गारैकनिधिः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' १. 'खादुत्वं' इति पाठ:.२. आलम्बनोद्दीपनाभ्यां कान्तोद्यानादिना द्विधा' इति पाठः,