पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

co दक्षिणामूर्तिसंहितः। हृल्लेखां पञ्चकंचाद्यं द्वितीयाङ्गावृतिः1 प्रिये ॥ ४३ ॥ कोणाष्टके यथा पूर्वं ततः पद्मदलेषु च । मातरो देवदेवेशि पूर्वादि परिपूजयेत् ॥ ४४ ॥ लोकपालाश्च तद्वाह्ये पुनराद्यां2 समर्चयेत् । उपचारैर्मनोरम्यैस्ताम्बूलान्तैः पृथक् पृथक् ॥ ४५ ॥ यथाशक्ति जपं कुर्यान्नियमेन तु सुन्दरि । अयं नित्याप्रकारस्तु पुरश्चरणकं शृणु ॥ ४६ ॥ रविलक्षं जपेद्विघां तद्दशांशेन होमयेत् । त्रिम3ध्वाक्तैः क्षीरवृक्षसमिद्भिश्च तथा तिलैः ॥ ४७ ॥ समासेन हुनेत्सम्यक् पुरश्वारी ततो भवेत् । जातीपुष्पैर्वश्यकामे संपत्यै कमलैः प्रियेः ॥ ४८ ॥ समिद्भिः पुष्टिकामस्तु खदिरैर्जुहुयात् प्रिये । एकाक्षरेपि देवेशि सन्त्यत्र भुवनानि तु ॥ ४९ ॥ व्योमबीजे महेशानि कैलासादिप्रतिष्ठितम् । बह्निबीजात्सुवर्णादि निष्पन्नं बहुधा प्रिये ॥ ५० ॥ तेनायं वर्तते लोको भूमिमण्ड4लसंस्थितः। चतुः5स्वरेण पाताले शेषरूपेण धार्यते ॥५१ ॥ (१) द्वितीयं चाङ्गकैः प्रिये' इति पा० । (२) 'पुनरेनां समर्चयेत्' इति पा० । (३) मध्यक्तैः क्षीरवृक्षस्य समिद्भिश्च तथा तिलैः । इति पा०। (४) 'भूमण्डलसमस्थितिः' इति पा०। (५) 'तुर्यस्वरेण इतिपाः ।