पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणमूर्तिसंहिता। श्रीकामयुगलं प्रोता मदनो भगवत्यपि ॥ ३ ॥ माहेश्वरी चतुर्वर्णमन्नपूर्णे ततो लिखेत् । चतुर्थ्या वह्निजायान्तो ताराद्यो मनुरीरितः ॥ ४ ॥ द्विदशाणां महेशानि प्रातरेव समर्चयेत् । अस्याः स्मरणमात्रेण पलायन्ते महापदः ॥ ५ ॥ ऋषिर्ब्रह्माऽस्य मन्त्रस्य षष्टिश्छन्दोऽभिधीयते । अन्नपूर्णेश्वरी सिद्धविद्येयं देवता प्रिये ॥ ६ ॥ बीजशक्ती कीलकं च हल्लेखैव प्रकीर्तिता । षडङ्गस्वरसम्भिन्नां हृल्लेखां कुरु पार्वति ॥ ७ ॥ एभिरङ्गानि विन्यस्य वर्णन्यासं समाचरेत् । ब्रह्मरन्ध्रे च सीमन्ते भाले भ्रूमध्ययोर्नसि ॥ ८ ॥ 1वके कण्ठे च हृदये अक्षि2नाभिसुलिङ्गके । आधारे स्फिगद्वये चोरुद्वये जानुद्वये तथा ॥ ९॥ पादयोर्देवदेवेशि पदन्यासं ततो न्यसेत् । नवद्वारषु देवेशि पदन्यासं उदाहृतः ॥ १० ॥ मूलेन व्यापकं न्यासं कुर्य्यादेहस्य सिद्धये । अथ यन्त्रं प्रवक्ष्यामि भोगमोक्षफलप्रदम् ॥ ११ ॥ त्रिकोणं षोडशारं च ततोऽष्टदलनीरजम् । (१) नेत्रेति' इति पाठान्तरम् । (२) कुक्षि इति पाठान्तरम् । (३) नवद्वाराणि ख-मुख १ नेत्र २ नासा २ कराङ्घ्रि २ लिङ्ग१ गुद१रूपाणि