पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ दक्षिणामूर्तिसंहिता। पञ्चमं च चतुर्थं च बीजशक्तिक्रमेण तु । तात्तीयं कीलकं देवि षडङ्गानि प्रविन्यसेत् ॥ ३ ॥ वृत्तं कृत्वा मनोरम्यं कर्णिका च सुशोभितम् । कामबीजेन तन्मध्ये महासिंहासनं यजेत् ॥ ४ ॥ रविपत्रंविशोभाढयं यन्त्रं विद्यां समालिखेत् । चतुरस्रं ततः कृत्वा मध्ये पुष्पं विनिक्षिपेत् ॥ ५ ॥ ध्यात्वा चावाहयेदेवीं कन्दम्बवनमध्यगाम् । रक्तवस्त्रकलाचारुमुकुटाम्बरभूषणाम् ॥ ६ ॥ महातारुण्यगर्वाढ्यां लोचनत्रयभूषिताम् । शोणिताब्धितरत्पोतमहायन्त्रोपरिस्थिताम् ।। ७ ।। डाकिनीं सायकांश्चैव पाशं चैव स्रजं तथा । चापं कपालं दधतीं शोणमाल्यानुलेपनाम् ॥ ८ ॥ सर्वरक्तमयीं देवीमुपचारैः समर्चयेत् । आदाबङ्गानि सम्पूज्य रविपत्रे प्रपूजयेत् ॥ ९ ॥ कृत्वेत्थं क्लेदिनीं नन्दां क्षोभिणीं मदनातुराम् । निरञ्जनां वाग्भवतीं च क्लिन्नां च मदनावतीम्॥१०॥ रवेचरीं द्राविणीं चैव क्रमाद् वेदवतीं यजेत् । कामबीजेन सम्पूज्या भूविम्बे लोकपालकाः ॥११॥ तथा च सम्प्रवक्ष्यामि सम्प्रदायान्तरं शृणु । रव्यंशुभूमिविम्बं हि चाष्टपत्रं समालिखेत् ॥ १२ ॥