पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः पटलः। श्रीबीजं कुरु तातीर्यं विद्या वेदाक्षरा भवेत् । उन्मनी नाम विधेयं पूर्वान्नायाभिदेवता ॥ ३ ॥ अनया विद्यया देवि देवी सम्मानिता प्रिये । शक्तिं कलाढ्यमन्त्रे च तुर्यवीजमुदाहृतम् ॥ ४ ॥ पूर्वसिंहासनगता भोगमोक्षफलप्रदा । मयैषा पूर्वषट्कोणे जप्यते ऽन्यापि सुव्रते ॥५॥ इति दक्षिणामूर्तिसंहितयां पूर्वसिंहासनविवरणं दशमः पटलः । अथ एकादशः पटलः। ईश्वर उवाच- दक्षिणास्येन देवेशि ललिता त्रिपुरा परा । कामेश्वरी रक्तनेत्रा माया ऽद्याऽपि प्रजापतेः ॥ १॥ शक्तिवीजं वाग्भवं तु कामराजं तु पूर्ववत् । अन्त्यं शिवसमायुक्तं त्रिपुरेश्याः पुरेश्वरी ॥२॥ इयं तु ललिता देवी महासौभाग्यवर्धिनी । न्यासपूजादिकं सर्व त्रिपुरेशीव नान्यथा ॥ ३ ॥ ध्यानमस्याः प्रवक्ष्यामि साधकानां स्वसिद्धये । उद्यत्सूर्य्यसहस्राभां माणिक्यमुकुटोज्वलाम् ॥४॥