पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अग्नीषोमावपो वापि पक्षौ तारः शिरो भवेत् । बिन्दुत्रयं शिखानेत्रे मुखे नादः प्रतिष्ठितः ॥ २७ ॥ शिवशक्तिपदद्वन्द्वकालाग्निपार्श्वयुग्मकम् । अयं परमहंसस्तु सर्वव्यापिप्रकाशवान् ॥ २८ ॥ सूर्यकोटिप्रतीकाशः स्वप्रकाशेन भासते । संहाररूपी हंसोऽयं विवेकं दर्शयत्यपि ॥ २९ ॥ अजपा जपतो नित्यं पुनर्जन्म न विद्यते ॥ ३० ॥ षट्शतान्यधिकान्यत्र सहस्राण्येकविंशतिः । अहोरात्रं चरेद्वायुः स जपो मोक्षदायकः ॥ ३१ ॥ इति दक्षिणामूर्तिसंहितायां अजपाविधानं नाम सप्तमः पटलः। अथ अष्टमः पटलः। ईश्वर उवाच- अथ वक्ष्ये महेशानि मातृकां लोकमातरम् । अकारादिक्षकारान्तां वर्णावयवदेवताम ॥१॥ ऋषिर्ब्रह्मास्य देवस्य गायत्रं छन्द उच्यते । मातृका देवतां देवि हलो वीजानि शक्तयः ॥ २॥