पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८८ दक्षिणामूर्तिसंहिता। दीक्षितस्याधिकारोऽत्र नान्यस्य परमेश्वरि । पुस्तके लिखितं दृष्ट्वा स्वयं ज्ञात्वा करोति यः॥३६॥ ब्रह्महत्यासुरापानस्वर्णस्तेयादिपातकैः । लिप्यते नात्र सन्देहो नरके निवसत्यसौ ॥ ३७॥ इति श्रीदक्षिणामूर्तिसंहितायां दूतीयजनविधिर्नाम त्र्यधिकषष्टितमः पटलः ॥ ६३ ॥ अथ चतुःषष्टितमः पटलः । ईश्वर उवाच- अथ वक्ष्ये महेशनि पवित्रारोपणं महत् । यस्मिन्सति कृतं सत्यमन्यथा शून्यमुच्यते ॥ १ ॥ कृते सम्वत्सरे यस्तु न करोति पवित्रकम् । एकीकृत्य फलं तस्य नीयते दुर्गणैर्वलात् ॥ २ ॥ आषाढ उत्तमो मासः श्रावणो मध्यमः प्रिये । हीनो भाद्रपदो मासः पक्षौ सितसितेतरौ ॥ ३ ॥ प्रशस्तः शुक्लपक्षस्तु तदा लाभः सितेतरः । चतुर्दश्यष्टमीपूर्णमासीतिथिषु संयजेत् ॥ ४ ॥ पदृसूत्रविशिष्टं तु कार्पासजनितं तथा । त्रिगुणं त्रिगुणीकृत्य प्रक्षाल्यामरवारिणा ॥ ५॥