पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विषष्ठितमः पटलः। १८३ श्वेताभरणवस्त्राढ्यां श्वेतपुष्पैः समर्चयेत् ॥ ६२ ॥ अनेन विधिना देवि वाग्भवाराधनं भवेत् । अथ कामकला नाम सम1ग्रं शृणु पार्वति ॥ ६३ ॥ काममन्मथकन्दर्पमकरध्वज एव च । महाकामश्च पूर्वोक्ताः पञ्चकामाः क्रमेण तु ॥ ६४ ॥ कामं मन्मथमध्यस्थं देवि कन्दर्पवेश्मगम् । तत्पुटस्थं मीनकेतुं महाकामेशमस्तकम् ॥ ६५ ॥ अनेन काम2मन्त्रेण मोहयेज्जगतीमिमाम् । मूलादिसृष्टिसंहारबिसन्तन्तुतनीयसी ॥ ६६ ॥ तस्मात्कुण्डलिनी शक्तिः शक्तिकूटे महेश्वरि । त्रिकूटा त्रिपुरा देवि सर्वसिद्धिप्रदा भवेत् ॥ ६७ ॥ चतुःषष्टिर्यतः कोटयो योगिनीनां महौजमाम् । चक्रमेतत्समाश्रित्य सतां सिद्धिप्रदाः सदा ।। ६८ ॥ इति श्री दक्षिणामूर्तिसंहितायां विद्याप्रयोगबीज- साधनविधिर्नाम द्विषष्टितमः पटलः ॥ ६२ ॥ १ 'साम' इति पो०। २ 'अनेनकामतत्त्वेन' इति पा० ।