पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विषष्टितमः पटलः । १७९ चकं विलिख्य साध्यं तु सा1धकान्तर्विदर्भितम् ॥१४॥ त्रैलोक्यमोहनो मन्त्री भवत्येव न संशयः। कामकूटेन देवेशि सन्दर्भ्य पृथगक्षरम् ॥ २५ ॥ साध्ये नाम्नि त्रिकोणान्तर्मातृकां वेष्टयेद्वहिः । स्वर्णमध्यगतं धार्य शिखायां यत्र कुत्रचित् ॥ २६ ॥ लोकपालाश्च राजानो दुष्टास्त्रैलोक्यसंस्थिताः । ते सर्वे वशमायान्ति सन्निपातादयो ज्वराः॥ २७ ॥ अनेन विधिना नामपुरीं सन्दर्भ्य संक्षिपेत् । चतुष्पथे मध्यदेशे दिक्षु पूर्वादिषु क्रमात् ।। २८ ॥ तस्य सौभाग्यमायाति राजानः किङ्कराः सदा । स्फुरत्तेजोमयीं पृथ्वीं प्रज्वलन्तीं चराचरम् ॥ २९ ॥ चक्रान्तश्चिन्तयेन्नित्यं मासषट्कं ततो नरः । तेन कन्दर्पसुभगो लोके भवति तत्क्षणात् ॥ ३० ॥ दृष्टयाऽऽकर्षयते लोकान् विषं नाशयते ज्वरात् । तथा विषं च हरति दृष्टयावेशं करोति च ॥ ३१ ॥ रात्रौ सिन्दूरलिखितं पूजयेदेकचित्ततः । करोत्याकर्षणं दूराद्योजनानां शतादपि ॥ ३२ ॥ अखण्डं दिक्षु कोणेषु क्रमेण परिपूजयेत् । यदा तदैव लोकोऽयं वश्यो भवति नान्यथा ॥३३॥ १ 'साध्यार्ण साधकार्ण बिदमिंतम्' इति पा० ।