पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ दक्षिणामूर्तिसंहिता। ङेऽन्तं वाग्भवह्रन्मन्त्रो मनुः सूर्याक्षरो भवेत् । अन्नोदमिश्रं भागेन साधारं पुष्पपूजितम् ॥ ९॥ संस्थाप्य पात्रं तत्रैव कलार्णेन बलिं हरेत् । तारं परा सर्वविघ्नकृद्भयः सर्वच भू लिखेत् ॥१०॥ तेभ्यो हुं वह्निजाया च त्रिवारोचारणाद्वलिः । पूर्वोक्तबलिदानं तु कुर्याद्विघ्नोपशान्तये ॥ ११ ॥ चतुर्घा वलिदानं तु त्रिषु लोकेषु दुर्लभम् । ततः कुमारीं संतर्प्य त्रिपुरेश्या ऽनयाऽथ वा ॥१२॥ मयूखान्परमेश्वर्याः सम्भाव्य मनुवित्तमः। खेचर्या शक्तिचक्रस्य स्वामिनी सम्विदं पराम् ॥१३॥ योजयेदात्मविज्ञानगहने कृपया गुरोः । शिवकोणे शेषिकेभ्यो निर्माल्यं सिद्धये क्षिपेत् ॥१४॥ अर्घ्यपात्रं ततो देवि गुरवे संनिवेद्य1 च । नाममन्त्रेण च स्वस्थं तर्पयेदुपदेशतः ॥ १५ ॥ वाममार्गेण देवेशि तत्त्वमुद्राधरः शुचिः । पुनराधारगं कुर्यादाचारे दीपलक्षणम् ॥ १६ ॥ आरार्तिकस्य मध्यस्थं मूलेनैव तु भक्षयेत् । कपालिन्या वाऽपि पात्रं त्वया वाऽपि समुद्धरेत् ॥१७॥ द्वितीयं तत्त्वया दक्षे संयोगेनैव पार्वति । १“गुरुमन्त्रवित्" इति पा!