पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उनषष्टितमः पटलः । १५५ पूज्या मुद्राः प्रयत्नेन स्वेष्टसंसिद्धिहेतवे । पश्चिमादिक्रमेणैव प्रकटाश्चतुरस्रके ॥ २० ॥ सर्वाशापूरके चके कलास्वरविजृम्भिते । पश्चिमादिविलोमेन गुप्ताः सम्पूजयेत्क्रमात् ॥ २१ ॥ कामादिकर्षिणी नित्या बुध्याकर्षिणिका तथा । अहङ्काराकर्षिणी च शब्दाकर्षिणिका तथा ॥ २२ ॥ स्पर्शाकर्षणिकां तद्रूपाकर्षणिकां ततः । रसाकर्षणिकां देवि गन्धाकर्षणिकां ततः ॥ २३ ॥ चित्ताकर्षणिकां तद्वद्धैर्याकर्षणिकां प्रिये। नामाकर्षिणिकां चैव बीजाकर्षिणिकां तथा ॥ २४ ॥ अमृताकर्षणीं चैव स्मृत्याकर्षिणिका प्रिये । शरीराकर्षणीं नित्यामात्माकर्षणिकां ततः ॥ २५ ॥ एता नित्याकला देवि चन्द्रमण्डलमध्यगाः । स्वरलग्नाः स्मरेन्नित्यं स्रवत्पीयूषवर्षिणीः ॥ २६ ॥ पाशाङ्कुशसुधापूर्णकाश्मीरघटदानदाः । सर्वसङ्क्षोभणे चके कादिलक्षान्तवर्गिणी ॥ २७ ॥ देव्यो गुप्ततराः पूज्या बन्धूककुसुमप्रभाः। पाशाङ्कुशस्फुरन्नीलनीलोत्पलकराः स्मरेत् ॥ २८ ॥ पूर्वादिषु चतुर्दिक्षु कोणेष्वग्न्यादिषु क्रमात् । अनङ्गकुसुमाचैव तथा चानङ्गमेखला ॥ २९ ॥