पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। अथो परप्रकाशश्च परादिविमृशस्तथा ॥ ६५ ॥ तृतीया परमेशानि कामेश्वर्यम्बिका ततः । मोक्षं चामृतसंज्ञश्च पुरुषोऽघोरएव च ॥ ६६ ॥ अथ वामः सद्गुरुश्च सिद्धौघश्चोत्तमः क्रमात् । उद्भवः पारमश्चैव सर्वज्ञः स्वस्थ एव च ॥६७ ॥ सिद्धस्तथा च गोविन्दः शङ्करो मानवौघकः । आयत्रयाक्साने तु स्वगुरुत्रितयं भवेत् ॥ ६८ ॥ पद द्वादश संख्याता गुरवस्तु भवन्ति हि । मानवौघाष्टकान्ते तु पुष्पं सङ्कोचयेत्तदा ॥ ६९ ॥ गुरुत्रयं तथा योज्यमन्यथा नष्टसन्ततिः । यातो मन्त्री ततो देवि पङ्क्तयर्हो न भवत्यसौ ॥७॥ अन्यथा गुरुसङ्कोचो न कर्तव्यः कदाचन । पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः ॥ ७१ ॥ तेषां समयलोपेन किं कुर्वन्ति मरीचयः । गुरुं विना क्रमं यस्तु कुरुते परमेश्वरि ॥ ७२ ॥ महाहानिस्तस्य देवि जायते नात्र संशयः । अलित्रयेण गुरवः संपूज्याः सिद्धिहेतवे ॥ ७३ ॥ गुरुमन्त्रेण नाम्नाऽपि निजं संपूजयेद् गुरुम् ॥७४॥ इति श्रीदक्षिणामूर्तिसंहितायां ध्यानादियजनविधि- रष्टपञ्चाशः पटलः ॥ ५८ ॥