पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दक्षिणामूर्तिसंहिता। इयं विद्या शक्तिकूटे सह1कोणानुसिद्धिदा । कामराजा2धिष्ठितेयं भुक्तिमुक्तिफलप्रदा ॥ १७ ॥ एतस्या एव विद्यायाः शक्तिबिन्दुमतीद्वयम् । हित्वा हसादिर्गदिता ऽगस्त्यागधितदेवता ॥ १८ ॥ धर्मार्थकाममोक्षाणामालयं सम्प्रदायतः । हित्वाद्ययुगलं वाचि साद्यं कामे शिवादिकम् ॥१९॥ शक्तिबिन्दुस्रजं त्यक्त्वा कामं तत्र विनिक्षिपेत् । शक्त्या चागस्त्यविद्येयं नन्याराधितदेवता ॥ २० ॥ कानुजानां त्रयं त्यक्त्वा हसाद्यं वादिमन्मथे । सहाधमन्त्ये सहयोर्मध्ये कः सूर्य्यपूजिता ॥ २१ ॥ अगस्त्यकूटत्रितयं सूर्य्यकामं समालिखत् । पुनस्तत्कलमध्येशं तातीयं वाथ संलिखेत् ॥ २२ ॥ सहाद्यं विष्णुपूज्ज्येयं षट्कूटा परमेश्वरी । अगस्त्याद्यं वाग्भवं स्यादेतदेव सकादिकम् ॥ २३ ॥ विष्णुविद्यापञ्चमं च स्कन्दाराधितदेवता । अगस्त्यस्य द्विधा विद्यां विलिख्य मनुवित्तमः ॥२४॥ चतुर्थी पञ्चमी मायां त्यजेच्छवहृदि स्थिताम् । वाग्भवस्थं चतुष्कं च कामराजस्थपञ्चकम् ॥ २५ ॥ (१)'ऽसहकेनार्थसिद्धिदा' इति पा० । (२) 'कामराजाराधिते इति पा०।