पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टचत्वारिंशः पटलः। 109 अथ अष्टचत्वारिंशः पटलः । ईश्वर उवाच-- अथ वक्ष्ये महेशानि विद्यां श्रीकुलसुन्दरीम् । बालाख्या त्रिपुरेशानी पूर्वसिंहासने स्थिता ॥१॥ ब्रह्मविष्णुमहेशाद्यैः पूज्ज्या श्रीकुलसुन्दरी । अथ वक्ष्ये परां नित्यां पुरुषार्थप्रदायिनीम् ॥ २ ॥ त्रिपुरेशीं समुच्चार्य नित्याख्यां भा1रतीं तथा । हूंकारत्रितयं बाणा विधेयं वासवाक्ष2री ॥ ३ ॥ अपरा पञ्चभिर्बाणैर्नित्यापञ्चाक्षरी भवेत् । त्रिपुरेशीव यन्त्रं तु ऋष्यादियजनं प्रिये ॥४॥ इति श्रीदक्षिणामूर्तिसहितायां नित्याद्वयविधिः अष्टचत्वारिंशः पटलः ॥४८॥ (१) "भैरवीं" इति पा० । (२)च रसाझरी' इति पा० ।