पृष्ठम्:दक्षिणामूर्तिसंहिता.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चचत्वारिंशः पटलः। १०३ आतुरा ज्वालिनी चैव ततः सिंहासनं यजेत् । देवीमावाहयेत्तत्र उपचारैः समर्चयेत् ॥ ९॥ आदावङ्गानि सम्पूज्य बसुपत्रेषु पूजयेत् । जातवेदाः सप्तजिह्वा हव्यवाहन एव च ॥ १० ॥ अश्वोदरभवश्चैव तथा वैश्वानरः प्रिये । कौमारतेजा देवेशि तथा विश्वमुखः क्रमात् ॥११॥ ततो देवमुखो देवी बसुपत्रेषु पूजयेत् । ब्राह्म्यादयस्तु सम्पूज्या वसुपत्रेषु देशिकः ॥ १२ ॥ इन्द्रादयस्तु भूबिम्बे पुनर्देवीं समर्चयेत् । साक्षाद्वह्निमहापीठकलादशकमाण्डताम् ॥ १३ ॥ इति श्रीदक्षिणामूर्तिसंहितायां वह्निवासिनीनित्याविधि- श्चतुश्चत्वारिंशः पटलः ॥ ४४ ॥ अथ पञ्चचत्वारिंशः पटलः। अथ वक्ष्ये महादेवि महाविद्येश्वरीं पराम् । नित्यक्लिन्नां समालिख्य मुखे तारं समालिखेत् ॥१॥ हृल्लेखान्ते फरमात्मचन्द्रबीजं विसर्गवान् ।