पृष्ठम्:तिलकमञ्जरी.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० काव्यमाला। बोणि रणतृष्णया कृतपरिस्फुटास्फोटनाः साटोपमभिमुखमेत्य रहसा सिंहनादानुश्चकैर्मुमुचुः । एवं च तैरनवरतकृतनिसर्गदुःसहोपसर्गरम. कसंसर्गस मे नित्यमेकाण मनसा यथाविधि विदधतो विद्यासापन- मतीतेषु षदसु मासेषु परिसमाप्तायां मनदेवतापूर्वसेवायामल्पावशेष जपविधौ सहसैव विद्युहीतदेहा प्रदीपकलिकेव सकलमुद्द्योतयन्ती तदसातलभुवनमाघातापूर्वदिव्याङ्गरागसौरभाकृष्टेम समन्ततो विसरद्धि- रामरणमाणिक्यरश्मिभिः शकलीकृत्य कणशः प्रकीर्णेन पातालतमसेव परितः प्रधावता मधुकरगणेनानुगम्यमानमूर्तिरेकातिरेफरम्याकृतिः सुर- वधूरागत्य मधुराक्षरमभाषत-'महामाग, देहि दृष्टिमष्टास्वपि दिग्वि. भागेषु । एतास्त्वदीयसत्त्वाकृष्टमनसः खत एव मुक्त्वा रसातलखर्ग- मागताः प्रज्ञप्तिरोहिणीप्रभृतयोऽष्टप्रधानविद्यादेवताः मष्टुमिच्छन्ति । संप्रति प्रवणतां गताभिरस्माभिः कथय किं ते प्रियं करणीयम्' इति । अहं तु तच्छ्रुत्वा कृताञ्जलिस्तां समाबभाषे–'भगवति, जगद्विभूषणेन मीषणारण्यचारिणा सहचरेण विप्रयुक्तस प्राणभूतया परमानुरक्तया मणयिन्या च निनिमित्तमेव संत्यत्तस्य संप्रति प्रियमेव मे नाति । कि कथयामि । यत्तु नियमिहाप्यवस्थायां तदहमात्मनैवात्मनः करिष्यामि । किं मया पृष्टेन । अयमनुयुज्यतामनगरतिनामा द्वारवर्ती विद्याधर- युवा यदर्थमेष प्रस्तुतो मनसाधनविधिः' इति व्याहते मयि सकि- सया सा प्रत्यवोचत्-'अहो महासत्त्व, सद्योजातपरमप्रियविषयो- गेन कथमपि नियम्य निजमनोदुःखमनीकृतपरार्थेनात्यर्थमानन्दिताई त्वया खकीयसच्चरितेन । को हि नाम वद्विना कालमेतावन्तमफल- मीदश लेशमनुभवति । को वा सकलमुवनाधिपत्यममार्धितोपनतमिः समन्यसै प्रयच्छति । मति हि युज्यते कर्तुमेतन्महाभागस वचनम् ।