पृष्ठम्:तिलकमञ्जरी.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४० काव्यमाला।


प्रवेशितसरलनिर्झसलिलधारैरसुरकन्याधिरोहणार्थमवलम्बितरज्जुजालैरिव सततसप्तर्षियात्रापवित्रितानि दिव्याश्रमपदानि, कैश्विदुत्तुक्तालतरुवनैस्त्रिविष्टपमुपस्प्रष्टुमूर्ध्वीकृतमुजैरिव निरातङ्कनाकिमिथुनाभ्यस्यमानमन्मथक्रीडामणितानि मणिशिलालयनानि, शिखरैर्धारयन्तं निविष्टानन्तवनदेवतानगरमिव लतागृहनातैराविष्कृतानेकपातालमिव सान्धकारकन्दरैः प्रसूतनिःसंख्यापत्यमिव दिङ्नागयूथैरुत्थापितमबलबहुलप्रदोषमिव तमालमरुमण्डलैरावासितापारवासरमिव स्वर्णसानुप्रभाप्राम्भारैः प्रकटितानेकरामायणमिव किलिकिलायमानवानरानीकनिकायैर्दर्शितापूर्वप्रजासगमिव किंपुरुषवर्गः, क्वचिद्बद्धमण्डलगरुडगोत्रपक्षिव्यावर्ण्यमानद्वीपान्तरप्रचारवार्ताम् , क्वचिद्विपक्षवारणविरोधपरिणतगजोन्मूलितगलगण्डशैलम् , चिन्मृगारातिकरकुलिशदारितजलदगर्भोद्गीर्णमुक्ताफलाकीर्णम्, क्वचिनृत्तप्रवृत्तनीलकण्ठनिवहदर्शिताकालशाङ्कलम् , कचिन्मुग्धवनमहिषपुरस्कृतपलायमानाश्वमुखसमूहम् , त्रिविक्रममिव पादापनिर्गतत्रिपथगासिन्धुपवाहम् , रथमिव चक्रवर्तिबलचूर्णितासन्नभूतलम् , मेरुकल्पपादपालीपरिगतमपि नमेरुकल्पपादपालीपरिगतम् , वनगजालीसंकुलमपि नवनगजालीसंकुलं तमवलोकितवान् । उपजातविस्मयं च तत्तस्य शिखरिणः खभावरमणीयासु शिखरश्रेणिषु पुनः पुनः प्रहितदृशमुद्दिश्य नग्नाचार्य एकः समुच्चार्य जयशब्दमन्दध्वानजयिना स्वरेण प्रक्रमागतमिमं श्लोकमपठत्-

दृश्यं भूमिभृतोऽस्य देव किमिह स्कन्धस्थविद्याधर-
श्रेणीयस्य वहन्ति यस्य समतामन्येऽपि गोत्राचलाः ।
द्रष्टव्यस्त्वमनन्यतुल्यमहिमा मध्ये धरित्रीभृतां
येनाधःकृतखेचरेन्द्रततिना बद्धास्य मूर्ध्नि स्थितिः ।।