पृष्ठम्:तिलकमञ्जरी.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। निवासग्रहणाय राजपुत्रैरेकत्र सुलमतृणकाठसलिले शैलसिन्धुरोपसि स्थितिमकल्पयत् । अतिमात्रमल्पीभूतभूपात्मजपुनदर्शनाशच प्रेर्यमा- गोऽपि वारंवारमयनिपतिभिरामहेण नाहारमग्रहीत् । गृहीतगाढचि- न्तामौनश्च दृढसमाधिस्थ इव लक्ष्यमाणप्रतिक्षणक्षिततप्तायतश्चासपि- शुनितासमाधिदेवतास्मरणवन्ध्यां संध्यामत्यवाहयत् । तरुतलप्रसारिते च तुरगपृष्ठास्तरणचर्मणि निषण्णो विषण्णेनान्तरात्मना चिन्त- यकुमारमुदिश्य तानि तान्यनिष्टानि कथंचिदपि तामनेककल्पाय- तैकैकयामां त्रियामामनयत् । उद्गते च दिनपतौ पुरस्त्रात्पतिष्ठासुः प्रेष्ठेन सेनावण्ठवर्गेण नास्ति गतिरगतस्तुरक्रिणामिति निर्वर्तितो गम- नात्तत्रैव क्षणे गमनदक्षमखिलासु दिक्षु सर्वमात्मपदातिबलमवनिपा- लसूनोरन्वेष्टारमादिष्टवान् । आत्मनापि मार्गतरुमूलवर्ती परिहतमा- नभोजनादिकर्तव्यो निवृत्तसकलापरब्यापारेण क्षुत्पिपासापरिक्षीणव- पुषा परिवृतः प्रधानपुरुषवृन्देन पृच्छन्नादरेण सुहृदुदन्तं प्रत्येकम- ध्वगानादिनान्तमतिष्ठत् । अस्तपर्यस्तमण्डले च कमलबन्धौ बद्धनि- बेंदः कथंचिदागत्य वसतिस्थानमधिकमखस्थचेताश्चिन्तामयीमिव प्रक- लदत्तदाहवेदनावेगदुःसहां सहासनवनदीर्घिकां चक्रवाकमिथुनर्निशी- थिनीमनयत् । ईषद्विकसितालोक एव च वासवककुभि वासरे विनिः- सृत्य वसते पुनस्तदेव पादपमूलमगमत् । अन्वपालयच क्षितिपालसूनो- ावर्तनार्थमनुमार्गप्रधावितानापतिप्यतो हस्तिपकपुरुषान् । अथ मुहूर्तावशेषेऽति दूरादेव विद्राणवदनान् , इतस्ततो निहि- तशिथिलालसपदान, अशक्तचंक्रमणखेदितेन मुक्तानिव जीवितेन श्वेतायताभिरन्तरान्तरापरिसवत्सान्द्ररुधिराभिः खदिरसरुशाखाशिलो- लेखरेखामिनिरन्तरगयाक्षितेन प्रकामरूमालवा कायेन दुर्गाटवीपर्य-