पृष्ठम्:तिलकमञ्जरी.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। शनैः शनैरुदचलत् । गत्वार्चवञ्चितदृष्टिपातस्तरुलतागुल्मगहनान्तरेण तत्समीपमास्फालयामास मनसि विस्फारिताभिमतमामरागवासनः कलितकान्तरलकोणया वामपाणिपल्लवप्रदेशिन्या स्थानस्सानसंस्पृष्टता- रतश्रीमूर्छनामेकोनविंशतिगुणां दक्षिणकरेण वीणाम् । उच्चचार च तारतममस्वातरक्षणक्षोभिवसकलजवनदेवतावृन्दमानन्दमुकुलितदृष्टि- मिर्गलितनिजगीतमयैः सविसयमाकर्ण्यमानमभ्यर्णवर्तिषु तरुनिगु- मेषु बद्धगोष्ठीमण्डलैः किंनरकुलैर्मन्दरालोडितजलराशिजलमिव स्पष्ट- मूर्छनागमकरचितं प्रभातकालग्रहचक्रमिव दर्शितप्रकाशसर्वखरविशेष मरुस्थलमिव कलमविकलपामतानमतिशयितसुरतप्रगल्भकेरलीकण्ठ- मणितं रणितम् । आगतं च तच्छ्रवणगोचरमाकर्णयन्नेकारेण चेतसा खल्पमप्यंकृतबारणः कर्णतालैः कपोलमदपरिमलाकृष्टानामलिगणाना स वारणः श्रान्त इव सुप्त इव कीलितश्वगलितचैतन्य इव क्षणमा- त्रमभवत् । निस्पन्दसकलावयवं च तं क्षितितलन्यखसरल मथकर- मपास्तकवलमाबद्धाच्छधवलस्थूलबिन्दुभिः सवद्भिरनवरतमानन्दबाप्पैः पारितोषिकपदानाय कुम्भमौक्तिकाकरमिव सृजन्तमतिचिरमवलोक्य संजातसंमदतत्क्षणमेव वध्वा परिकरं क्षिप्रतरपातिभिः पदक्षेपैरुपा- सर्पत् । दूरक्तितस्तम्भनिश्चलं च क्रमेण निजमिव प्रासादमतितुङ्ग- मप्युदनविकटेन दन्तसंक्रमेणाध्यारोहत् । मारूढमात्र एव च तन स द्विपः सपदि तां विमुच्य वालकीस्वश्रवणजनितामानन्दनिद्रामुन्मु- द्रितलोचनश्चचाल । तस्माच्छैलपरिसरादडशोऽश इति श्रत्वा च सत्वरं कुमार(१)ध्याहारमतिरभसधावितैः संप्रमस्खलितगतिभिरनक- रतकृततर्जनैः प्राजनपाणिभिः परिकरवृन्दैः पृष्ठतः कृतानुगमनो गमनवेगोडीनसंध्यारागनिमकुम्मसिन्दूरपूरो पूरोच्छलतकलागुणद्धि-