पृष्ठम्:तिलकमञ्जरी.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। नमस्य पूर्ववृत्तान्तम् । अस्ति सुवर्णद्वीपे मणिपुरामिषाननगरनिवासी बहुमतो राज्ञः पौरवर्गस्य च प्रवीणः किमपि लोकयात्रायां सांयात्रि- कवणिग्वैश्रवणो नाम । तस्य सर्वदा देवद्विजातिश्रमणगुरुशुश्रूषाप- रस्थ निजमुजार्जितं पूर्वपुरुषोपार्जितं च प्राज्यमर्थमर्थिजनैः सुहृद्भिर्वा- न्धवैर्विद्वद्भिश्च मुक्तशेषमुषभुञ्जानस्य पश्चिमे वयसि वसुदचाभिधा- नायां गृहिण्यामपश्चिमः सर्वापत्यानां तारको नाम दारकः समुद- पादि । स रूपसंपदातुलितसुरकुमारः कौमार एव यथाविधिश्रुतशास्त्रः कलासु कृतश्रमः क्रमागतमशेषपुरुषार्थसंपत्तिपात्रमभिनवमधिरुह्य यौवनं यानपात्रं च गृहीतप्रचुरसारभाण्डै रिशः कृतद्वीपान्तरयात्रैः सहकारिभिरनेकैः सांयात्रिकैरनुगम्यमान इमामेव नगरी रङ्गशालामा- गच्छत् । आयातमात्रस्य च तस्य विविधानि बद्धनगरलोकसंपातपरि- हाराय विपुलावकाशे जलराशिपरिसरे समावासितस्य समीपवासिना सकलकैवर्त कुलनायकेन जलकेतुनाना कर्णधारेण साध कथंचित्सख्य- मजनि । परस्परोपचारकर्मणा च प्रौदिमुपगते तत्र कदाचिदारूढनव- यौवना त्रिदशवनितेव शाफ्दोषानिपतिता मनुष्यलोके निकामकमनी- यदर्शना प्रियदर्शना नाम तस्य जलकेतोः सुता सुतारवृत्तमौक्तिकप्र- कल्पितं हारमादाय पितुराज्ञया गता तहम् । दृष्टश्च स तया प्रथम- दर्शन एव रूपातिशयदर्शनारूढदृढतरानुरागया सस्पृहमुपनीतेभ्यः । उपनीतोपायना च खित्वा कंचित्कालं कृतप्रत्युपचारा तेन पुनर्वाताख- सदनमनुरागप्रेरिता च तद्दर्शनाशया तैस्तैर्व्यपदेशैरागन्तुमारब्धा प्रति- दिनम् । एकदा तु तदीयसौषशिखरशालायां सख्या सह क्रीडन्त्याः क- चित्सविधमागतोऽसौ तद्दर्शनोपारूढसाध्वसा च सत्वरं व्रजन्ती वेपथु-