पृष्ठम्:तपतीसंवरणम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2 1- The author of the Vyangyavyakhya (व्यङ्गयव्याख्या) makes the following observation by way of introduction, ‘कालेऽथेति वर्तमाने कस्मिंश्चिदह्नि प्रातरुत्थाय चूर्णिकासरिद्वारि अनुष्ठितपूर्व- सन्ध्येन दृष्टपरमेश्वरमङ्गलस्थपरमपुरुषेण प्राप्तात्ममन्दिरालिन्द देशप्रक्षालित कर- चरणेन हसन्तिकोद्यत्कृशानुशमितशीतरुग्णेन जपध्यानपरेण मथा केरलेश्वरव- चनकारी कश्चिद् ब्रह्मबन्धुः समलक्ष्यत । स च सत्कृतसत्कारो यथाविधि सुमानितः । संपृष्टकुशलप्रश्नः सादरं स्थापितो भुवि ॥ पृष्टागमनहेतुः स मामवोचदिदं वचः । भवन्तमधुना राजा संदिदृक्षुरिति स्म सः ॥ अथ मयामुना सहारूढखट्वाशय्या सम्पादितस्वादुवस्तुसौख्यया नावा चूर्णिका- सरिदावाह्यमानया सत्वरं महोदयाख्यं पुरं गम्यते स्म । अथ तत्र तथा गच्छन्नपश्यं केरलाधिपम् । समासीनं विराजन्तं मध्येनागारिविष्टरम् || किरीटमकुटप्रोद्यन्मणिश्रीलिसवर्णकम् । उन्नम्रभालघोणांसबाहुमूलोदरान्वितम् || दूरदीर्घाक्षिदोर्जङ्घायुगलाञ्चित विग्रहम् । अङ्कविक्षिप्तनखरं सर्वलोकप्रियं नृपम् ।। सप्रश्रयमहं तत्र सदस्यवहितोऽगमम् । निःस्यन्दमानसुधया वाचा सत्कुरुते स्म माम् ॥ मुहूर्ते स्थितवत्यस्मिन् मय्यत्र स महीपतिः । श्रितप्रसादया दृष्टया वीक्षमाणः सभासदः ॥ अनुज्ञाप्योदगात् तस्मान्निरगच्छन्मया सह । रहो नर्म वदन् प्रायान्मन्त्रशालामनन्यगाम् ॥ अथावदत् सुखासीनं मां नरेशः प्रहृष्टवान् । रचिताद्य मया विद्वन् कथञ्चिन्नाटकद्वयी || एकं संवरणं नाम धनञ्जयमितीतरत् । ध्वनिलक्षणयुक्ता सा रचिता नाटकद्वयी ||