२१४ तम्भवातिके । लैकिकव्यवहारार्थं तेनेदं न विचार्यते । वदं तु प्रत्यभिज्ञाने शब्दार्थविषये सति । विवेकः शक्यते ज्ञानं प्रतीतेर्वाच्यगम्ययोः । श्री किके च शब्दार्थे वाच्यवाचकरूपयोः अज्ञातयोर्न जायेत संदेच वाच्यवस्तनि॥ तेन प्रतीत शब्दथे निर्णयार्थमिदं पर। एकत्वं विद्यते नेति चिन्त्यं शब्दाभिधेययोः । संख्याभावादिति ह्यनननु घटं निरूपितम्। शब्दस्य प्रत्यभिज्ञानान्नान्यतोच्चारणान्तरे । अभेदकारणं चत्र प्रत्यभिज्ञानमेव ते। अन्यपचयत्वेन तेन चिन्ता न युज्यत ॥ लैकिकेष्वेव शब्देषु तत्राभेदः प्रसाधितः । वैदिकानामभेदर्थं चिन्तनीयमिदं पुनः ॥ व्यपदेशादिभेदच्च कथं भेदो न जायते । तत्रानुक्तमिदं वक्तुं विचारोयं प्रवर्तितः । एकन्वेषि च शब्दस्य मिहे तत्रेव चिन्त्यते । किमर्थं भिद्यते नेति तेनाप्यपुनरुक्तता ॥ अर्थाभेदे च चिन्तेयं शब्दाभेदे तु सत्यपि। घटते कस्य वाच्यत्वं व्यतया।कयोर्दूयोरपि । व्यपदेशादिभेदेन शब्दे च प्रत्यभिज्ञया ॥ भेदाभेदनिमित्ताभ्यां क्रियते संशयङ्गवः । किं प्राप्तमुच्यते भिन्नै शब्दथेलोकवेदयोः । व्यपदेशस्य भिन्नत्वादाख्याया लक्षणस्य च। खरोच्चारणभेदाच्च खोपव्यत्ययद्र्शनात् ॥ ९
पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३२
दिखावट