पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमrध्यायस्य तृतीयः पादः । १६७ न तकतकत लब्ध्वा लभते नित्यमूलप्तम् ॥ ययव धर्मश।स्त्राणां मूलवाक्यानि मन्यसे । तान्येवैतानि पयन्तइत्येतत्कल्पितं वरम् । मन्वदिभिरवश्यं च स्वग्रन्थप्रतिपादने । तान्युपन्यसनीयानि शिष्याणां वेदवादिनाम् । तेन त।न्येव तैरेभ्यः सम्प्रत्तनानि गम्यते । के चि तेथुपलब्धेषु गृहयुः प्रतिकञ्चुकान् ॥ यथा च धर्मशास्त्राणां नाद्यत्वे प्रतिकञ्चुकाः । । ग्राह्यास्तथा पराप्यासन्न वेदप्रतिकञ्चुकाः । सम्प्रदायविनशच्चेङ्गोतेस्तदसमर्पणम् । मन्वादिध्वनुमयेत स्वग्रन्थकरणं तथा ॥ वेदवाक्यार्पणं येषां खण्डशो नाभिसंमतम् । स्त्रग्रन्थकरणं तंष वदस्थान कथं भवत् ॥ वेदादेव च विज्ञातो वेदार्थः साधयेत्फलम्। नान्यस्मत्पुरुषग्रन्थान्मन्त्रभसत् अतो यथा ।। कृत मन्वादिभिर्यद्वन्न मन्त्रप्रतिकञ्चुकाः। न चैतेन स्मृतं कर्म सिद्ध्यतीत्यवधारणात् । तथव तैनं कर्तव्या ब्राह्मणप्रतिकच्चकाः । नावेदविदितं कर्म फलतीति चि निश्चितम् । न चैभिर्भिन्नदेशस्थवेदवाक्यसमुच्चयः। कृत इत्यवगन्तव्यमीदृक् ग्रन्थावधारणात् । ईदृगेवं क्रमश्चायं वेदग्रन्थ इतीदृशं । युज्यते वि मतिः कर्तुं न मूलान्तरकल्पना॥ तेन प्रयोगशास्त्रत्वं तदैवापतितं बचत् ।