पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य तृतीय: पादः । १२३ तमावपरिमण्यमसमाप्य समाख्यापर्यन्तप्रापितपदार्थगतपरि माणावधारणामाश्रीयते । तथा सुत्याचारपव्र्यन्तावगतपरिमाण कान्नो ऽपि च प्रयोगाङ्ग सर्वान्ते सोपि गृह्यते । () म्बन्धः काल्नो ऽपि नेव सवपसंहारविरोधीति तेष क्रमका लपरिमाणष्वदर्शनाद्विरोधस्येत्यच्यते । यद्वा । तेष्वाचमनादिष क्रियमाणेष्वदर्शनाद्विरोधस्येति सत्रार्थयोजना । अपि च । शैचयज्ञोपवीतादेर्न खतन्त्रपदार्थता । सर्वे ह्याङ्गप्रधानार्थं तेन न व्यवधायकम् ।। श्रतदङ्गेन हि तुल्यकशेण व्यवधानं भवति न सर्वप्राणतेन । वेदं कृत्वा यदा वेढिमकृत्वा ऽऽचामति चुते । वेदिमेव करोतीति स वक्त शक्यते तदा । वेदिरेव ह्यनाचम्य कुर्वतो विगुणो भवेत् । तामव सगुणां क्रतुं शूद्वद्या न व्यवधास्यते ॥ इममवार्थमभिप्रेत्य भाध्यकारोणोक्तं न चैवञ्जातोयका अर्था पदार्थानां व्यवधातारो भवन्तीति । इतरथा ह्यङ्गप्रधानार्थत्वे ऽनाश्रीयमाणे शून्यहृदयवचनमेवैतत्स्यात् । तस्माद्राचमनादीनां क्रतुभिः सङ्गंचे सति । नन्विच् यज्ञोपवीतमुदाद्दत्तव्यं दर्शपूर्णमासादिपूपव्ययते