पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य तृतीय पादः । अगृहीतविशेषत्वान्स्यातां तुल्यबले ततः ॥ तस्मिन्नेव क्षणे मूलं कल्पयेत्खं स्मृतिः श्रुतिम् । ततो ऽर्थविप्रकर्षेऽपि प्रमाणत्वेन तल्यता । भवेदेव श्रुतिस्मृत्येोरर्थः श्रुतिपरिग्रहात् । यतः स्मृत्या गृहीत ऽपि चिरेण श्रतिकल्पना । जायते कृप्तया तस्मात्मा बाध्येताप्रतिष्ठिता । स्मृतिमूनानपेक्षा हि स्मृतित्वादेव दीयते । एष तावद्विकल्पपदमनारुढाया एव स्मृतेरेको बाधप्रकारः । द्वितीयेन प्रकारेण विकल्पपदवीं गता । आपन्ना पाशिक बाधमत्यन्तं बाध्यते स्मृतिः ॥ तद्दर्शयति । विकल्पं तु वदन्पक्षे तावच्छुतिप्रामाण्यमभ्युपै तीति । तदा च स्मृत्यप्रामाण्यमवश्यंभावि तस्यावाप्रामाण्यक ल्पनायां न श्रतेरिव तदध्यारोपः । किं तु तस्याः प्रमाणत्वं श्रुतिमूलत्वकारितम्। यतस्तस्मादतन्मूला तदानीं सावधार्यते । श्रुतिमूलत्वविच्छेदोत्तरकालं च प्राङ्गिराकृतमूलान्तरोपखवा दविगानस्मृतपुरुषप्रणीतत्वनिर्णयाच नित्यत्वद्दारनिर्मूलत्वासंभ वाद्वश्यंभावि विप्रलम्भाभिप्रायादि किं चिदेकं मूलमापद्यते । श्रुतिं मुवा च यन्मूलं स्मृतेरन्यत्प्रकल्प्यते । तेनैवास्याः प्रमाणत्वमत्यन्तं प्रतिच्छ्न्यते ॥ त्रीहिश्रुतिपरिग्रचकाले हि यवश्रुतेरभूतमेवाप्रामाण्यमध्या रोपितम् । तत्प्रयोगान्तरवेलायां तुल्यसाम्प्रदायिकाग्नायमान