पृष्ठम्:तन्त्रवार्तिकम्.djvu/११४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९७३ तर्भवति । अपवादाधिकरणमेतत् । तत्र पूर्वाधिकरणेनैव सामिधेनीसप्तदश्यानारभ्यवदम्य प्रकृत्यर्थत्वे प्रक- रणधीतेन पाञ्चदश्येन सह विकल्प दूति विशेष शकां निवर्तयति । कथं पुनः प्राकरणिकेन विशेषवि- धिना सह तुल्यबलस्य विकल्पो भिधीयते । आह तत्र नाम विशेषेण समान्यस्य निराक्रिया । प्रत्यक्षो यत्र संघन्धो विशेषेण प्रतीयते । तुल्यप्रमाणको हि विशेषो बाधको भवति न दुर्ब- लप्रमाणकः । न च क्रतुप्रयोगादन्यव समिधेन्यो वि- द्यन्ते तस्मात् क्रतु प्रयोगप्राप्तिस्तुल्या ततश्च किं प्रकरण मधिकं करिष्यति । द्वयोस्तुल्यबलयोः प्रमाणयोर्विरोधे सति बलवप्तरेण निर्णयः कर्तव्यो न च प्रकरणं वा क्या हलवत्तरमते यावत्प्रकरणव्यापारो नैव भवति ता वक्षयद्वयेन तुल्यबलेन विकल्पो वध।यते । तेन २धू नवलं यद्यपि प्रकरण सहस्रमपि च स हृषीभवति तथा ऽपि न तदनु रोधः कर्तव्यः तस्मात्पुत्रव्यर्थं सप्तद ऽयमिति प्राप्ते ब्रमः । तुल्यो यद्यपि संबन्धः सामिधेनौः प्रतीयते तथा ऽपि क्रतुसंबन्धवैषस्यान्न विकल्पते ॥ सामिधेनौखरूपप्रयुक्त वे अनर्थिका संस्थेच्यवश्यं यागा पूर्वसाधनत्वकारित संबन्ध ऽध्यपगन्तव्यः । न च या- गपूर्वसाधनत्वं प्रकरणादृते लक्षयितुं शक्यते इति नवमे वक्ष्यामः । तेन प्रकरणानुग्रहविशेषात्पञ्चदश्यमपूर्वसंब न्धप्रमाणप्रत्यासत्ते र्ब लौयः । विधिरपि हि पूर्वं प्रयोजन वति पुरुषं नियुक्ते साप्तदश्याच्च पाञ्चदश्यं शीघ्रतरं प्र योजनवद्वधर्यतइति विधिकलवैषम्यादमुख्यय लत्वम्