पृष्ठम्:तन्त्रवार्तिकम्.djvu/१०५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८५ तृतीयाध्यायस्य चतुर्थः पादः । मान आनर्थक्येन लौकिकाग्निषद्येत । यस्तु ज्योतिष्टो मादौ जक्षुभ्यमानः स दर्श पूर्णीमासिकबदेव सप्रयोजन इत्यशक्यो वर्जयितुमित्यतः क्रतुमावयुक्तपुरुषधर्मो भ वति । अस्योत्तरं गूढाभिप्रायम् । संस्कृतेन तु तेन प्रयो जनं नास्तीति । कुतः । न संबन्धो निवीतस्य यथैवातिथ्यकर्मणा । श्रुत्यादिभिरसंयोगात्तथैवस्य क्रियान्तरैः॥ यदि सर्वत्र विहित: सन्ननर्थकत्वेन लौकिकानिच त्यंत तत एतदेवं स्यात् न त्वसावेवं निवर्तयितुं शक्य- ते न हि प्रयत्तनि शास्त्राणि केन चिन्निवर्यन्ते किं त ऋदित एवैषां प्रवृत्तिप्रतिबन्धो विधीयते । सा चैवं प्रतिबध्यते । यदि द्रव्यसंख्याहेतुसमुदायं चेत्यधिकरण न्यायेन स्वपस हुतावनर्थकत्वाज्ज्जभ्यमानशब्देनापूर्व साधनत्वं लक्ष्यते तल्लक्षणा च न प्रकरणादृते लभ्यते । न च दर्शपूर्णमामापूर्वं मुत्वा ऽन्यस्य प्रकरणमस्ति । त- स्म।त्तदपूर्वसाधनं यो जञ्जध्यमानस्तस्यैवैष संस्कारः । एवं तीर्थस्नानमपि वक्तव्यम। एतौ च परिचदनापरि हारो सूवकार एव वक्ष्यति । आरादपौति चेत् न तद्दक्यं हि तदर्थत्वादिति । यत्तु प्रयोगवचनेन सिद्धेर्वि ध्यानर्थक्यमिति । तत्राह । वरं तस्यानुवादत्वं न च नि- फलपुरुषमावधर्मविधानमिति । इह भाष्यकारेण नि रन्तरयोर्दूयोरधिकरणयोरकस्यः परिचोदनायाः पर स्परविरुद्धपरिहारद्वयमुक्तम् । अत्र सत्प्रयं गवचनेन - ह्यते न चाविहितमङ्ग' भवतौत्येकः । एवं सव्यनुवादो भविष्यतीत्यपरः । तत्र ‘कस्य सत्यां कस्यान्नृतत्वमिति विवेक्तव्यम् । यथा तावत्पूर्वत्र व्याख्यातं तथा विधित्व १२४