पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्याद्वयोपेता तत्र तावत्तत्त्वै सामान्यतो विभागेनोद्दिशनि— खतन्त्रमिति । श्री विजयीन्द्वतीथः । तत्रेति । कर्तव्यतात्वेन बुद्धिस्थानां उद्देशलक्षणविभागपरीक्षाणां मध्य इत्यर्थः । यद्वा तत्रेति निमित्तसप्तमी । तेन विशेषतो जगद्ज्ञानार्थेमित्यर्थः । सामान्यतो ज्ञाते विशेषजिज्ञासोदयादिति भावः । सामान्योद्देशविभागयोः विशेषोद्देशविभागद्वारा लक्षणपरीक्षाङ्गत्वमिति भावेनोक्तमू-- तावदिति । 'द्विविधं तत्त्वमिप्यत ? इत्यादिना सामान्योद्देशविभागकरणात् 'भावाभावी द्विधेतर 'दिल्यादिना च विशेषेोद्देशविभागकरणात् नेदं तेन गतार्थमित्याशयेनाह- सामान्यत इति । एवञ्च तत्त्वमित्यनेन तत्त्वस्य श्री वेङ्कटभट्टाः । वा सन्देहो वा म्यादिति कथमनुष्ठितमेवेति निर्णय इत्यत आह -- तच्चेति । त्र्याप्यान्तरसत्त्वात् ग्रन्थे निवेशनमेव तद्याप्यमित्यसिद्धमिति भावः । अनुमानं तु - अयं ग्रन्थारम्भः अनुष्ठितमङ्गलकः, परमास्तिककर्तृकत्वात्, भग६त्पादकर्तृकत्वाद्वा, भाप्यादिवदिति बोध्यम् । किञ्च किमिद ग्रन्थनिवेशनं नाम, किं मङ्गलत्ववाचकशब्दनिवेशः ? ग्रन्थादौ मङ्गलात्मकशब्दनिवेशी वा ? नाद्यः- मायावादखण्डनार्दी स्तौमीत्येवमनुत्तावपि नृसिंहस्तुत्यात्मकमङ्गलानुष्ठानस्य ज्ञात्त्वात् । द्वितीयेतु – प्रकृतेऽप्यस्तीत्याह -- यच्चायमिति । स्वातन्त्र्यादीत्यादिशब्देन तत्त्वतापरिग्रहः । तत्वतायास्तत्वान्तरसाधारण्यात् स्वातन्त्र्यस्य अादित्वेन ग्रहणमिति बोध्यम् । ननु युज्यते नृसिंहस्तुत्यात्मकशब्दनिवेशम्य मङ्गलानुष्ठानत्वादिकं, म्तुतिरूपमङ्गलत्वेनैव नन्निवेशात्, स्वानन्व्यादिसङ्गीर्तनस्य तु पदार्थान्वयप्रतीत्यर्थ कृतस्य कर्थ मज्ञलत्वमित्यत आह- अन्यपरमपीति । सूत्रादी अथशब्दादिकमिवेति भावः । तत्र तावत्तत्त्वमिति । कर्तव्यन्वेन बुद्धिसन्निहितानां सामान्यविशेषविष'याणां उद्देशलक्षणविभागपरीक्षाणां मध्ये, विशेष'विषयाणामुद्दे 1. वस्तुनिर्देशः उद्देशः । इतरव्यावर्तकधर्मवतया बोधनं लक्षणं, विभाजकधर्मवतया कथन विभाग:, विचारेण व्यवस्थापन परीक्षा 2. तत्वानां । 3. बहुत्रीहिः ।