पृष्ठम्:तत्त्वसङ्ख्यानम्.pdf/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्याद्वयोपेता मुमुक्षुणा खलु परमात्मा जगदुदयादिनिमित्तत्वेनावश्यम्वगन्तव्य श्री विजयीन्द्रतीर्थाः । पतित्वेनोत्कीर्तर्न नम्यपदाम्भोजयुगस्य भगवतो विशिष्टष्टाधिकृतत्वसूचनाय । नत्वेति प्रधानक्रियामात्रापेक्षया न पूर्वकालत्वं त्वाप्रत्ययार्थ:, किन्तु करिष्यमाणापेक्षया तद्विवक्षितम् । एवञ्च लक्ष्मीपतिनतेः गुरुनत्यपेक्षया पूर्वकालत्वे दर्शिते गुरुतमादिक्रमेणैव नतिः कर्तव्येत्यपि शिक्षितमिति वेदितव्यम् | ननु तत्वविचारस्य मोक्षसाधनतत्त्वज्ञानार्थत्वात् तस्य च शास्ले कृतत्वात् तत एव तत्त्वज्ञानसम्भवात् पुनस्तद्विचारार्थमेतत्प्रकरणमनारम्भणीयमित्याशङ्कयाह-- मुमुक्षुणेत्यादि । मुमुक्षुणेत्युपलक्षणम् । शमादिमतेत्यपि बोध्यम् । स्वछु - वाक्यालङ्कारे प्रसिद्ध वा । परमात्मा = परं ब्रह्म, विष्णुरिति यावत् । जगच्छब्देन कार्यप्रपञ्चो विवक्षित: । कार्याकार्यप्रपञ्च (Iव वा। तयोरपि जन्यत्वव्यपायाभ्यां 'तन्निमित्तकत्वमस्तीति न कोऽपि दोष इति ध्येयम् । उदयादीत्यादिपदेन स्थितिसंहारनियमनेत्यादिव्यापारो बोद्धव्यः । जगप्रत्युपादानत्वं असंभवात् परमात्मनोऽनभिमतमिति सूचयितुं निमित्तत्वेनेत्युक्तम् । कर्मणोऽपि तत्वज्ञानद्वारा मोक्षोपायत्वं, न तु तस्य तत्वज्ञानेन समं समुच्चय इति सूचनायावश्यमिल्युक्तम्। 'ब्रह्मविदाप्नोति पर' मित्यादि श्रुतिबलेन तत्वज्ञानस्य श्री रोट्टि वेङ्कटभट्टाः । अपि नम्यत्वादेवमुनम्। पदे अम्भोजे इव पदाम्भोजे, तयोर्युगम्। शब्दस्यैवात्र प्रपञ्चो निपिध्यतं नार्थस्यति * नातिविस्तर' मिति ऋदोरवित्तिं अबन्तशब्द प्रयुक्लानत्य भावः । ननु- परापरतत्वविवेकपरमिर्द प्रकरण नारम्भणीयम्। अधिकार्या*दिशून्यत्वाति, अतस्तत् न व्याख्येयमित्यत आह-- मुमृक्षुणति । मुमुक्षुणा=अधिकारिणा, परमात्मा विषयः, जगदुदयादिनिर्मितत्वेन प्रकारण अवश्य मोक्षस्यान्यथाविरहान्मोक्षार्थ विज्ञेय इति, ‘यती वा इमानि भूतानि जायन्ते, अथाऽतो ब्रह्मजिज्ञासा, जन्माद्यम्य यत' इत्यादि श्रुतितन्मीमांसादिसच्छास्त्राणां निर्णीतोऽर्थ इत्यर्थः | तर्हि परतत्वमेव विषयभूतं विविच्यतां, किं 1. ब्रह्ममीमांसादी । तत्र विक्षिप्य कृतम्, न तु क्रोडीकारेणकत्र। 2. शास्त्रक देशसम्बद्धम् ।। 3. विष्णुनिमित्तकत्वम् ।। 4. अादिना विषयप्रयोजनसम्बन्धानां ग्रह:।