पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री– इतिशब्दाध्याहारेण कुतो योज्यमित्यत आह ।।अन्यथेति। । द्विविधमिति । प्रकारद्वयोपेतमित्यर्थः । ‘तदधीनाश्च सर्वदा । सत्ता प्रधानपुरुषशक्तीनाञ्च प्रतीनयः । प्रवृत्तयश्च ताः सर्वाः नित्यं नित्यात्म ना यतः’ इत्यनुव्याख्या मनसि निधाय स्वतन्त्रास्वतन्त्रतत्वे क्रमेण लक्ष यति । स्वरूपप्रमितीत्यादिना । अत्र स्वरूलक्षण सत्तायां स्वप्रमिति विवक्षितम् । अतो न वैयथ्र्यशङ्का । केचिन्मन्यन्ते स्वरूपमेव वस्तुन स्सत्वमिति । अपरेतु प्रमाणयोग्यत्वमिति । अन्ये पुनरर्थक्रियाकारित्व मिति । तदनुसारेण स्वरूपप्रमितिप्रवृत्तीनां सत्वव्यवहार इति ध्येयम् । । परापेक्षमिति । सत्तात्रैविध्य इति वर्तते । तदुपपादनायेति । तत्वं स्वतन्त्रास्वतन्त्रभेदेन द्विविघमित्युक्तस्य सर्वस्योपपादनायेत्यर्थः । इदं सर्वे प्रामाणिकैरङ्गीक्रियत इत्युक्त्या एवं ये नाङ्गीकुर्वन्ति तेषा मप्रामाणिकत्वञ्च सूचितम् ॥ तदुपपादयति । तथाहीत्यादिना । तथा च इष्यत इत्यनेन परीक्षापि कृनेत्यवगन्तव्यम् । एवमुत्तरत्रापि द्रष्टव्यम्। येन स्वतन्त्रमस्वतत्त्रञ्चेति तत्त्वद्वैविध्यं नाङ्गीक्रियते स प्रष्टव्यः । किं तत्त्वस्यैवाभावात्तदनङ्गीकारः। भावेऽपि तसैयकत्वेनालेकप्रकारत्वाभावात् द्वैविध्यं नाङ्गीक्रियते । अथ तत्त्वस्येवानेकप्रकारत्वेऽप्यनेकप्रकारकस्य सर्वस्यापि स्वतन्त्रत्वेन वा अस्वतन्त्रत्वेन वा सर्वस्य एकविधन्वेन द्वैविध्यासम्भवाद्वा प्रकारान्तरेण द्वैविध्यसम्भवाद्वेति विकल्पचतुष्टयं मनसि निधायाद्यमनूद्य दूषयति ॥ वि–प्रामाणिकैरिति । अनेन प्रमाणसूचनद्वारा अर्थात् परीक्षापि कृतेति वोद्धव्यम् । रो–तचेति । सापेक्षत्वात्सावधेश्च तत्त्वेऽद्वैतप्रसङ्गतः । एकाभावान्न संदेहान्न रूपं वस्तुनो भिदा। इत्यादिबाधकं तु विष्णुतत्वनिर्णयादौ निरस्तमित्यर्थः । स–स्वतन्त्रमस्वतन्त्रञ्चेति तत्त्वं द्विविधमिति प्रामाणिकैरिष्यत इत्यनेन सूचितामितरेषामप्रामाणिकतां लेशतः स्वयमाह ॥ यदीति ॥