तत्त्वसखयानम् टी-ननु प्रकरणादौ मङ्गळं किमपि कस्मान्नानुष्ठितम् । न ज्ञानादिमतां मोक्षदानम् । मुक्तानां सौख्यदानम् । अयोग्यानां मिथ्या ज्ञानद्वेषादिदानम् । तद्योग्यमुक्तिदानम् । दुःखभयादिदानम् । मिश्राणां सुखदुःखाद्युभयदानम् । जडेषु भावकार्यपदार्थानां वृद्धिक्षयादिदानम् । अभावेषु प्रागभावस्य नाशदानम् । ध्वंसस्य जन्मदानम् । त्रैकालिका भावस्य शश्वदेकप्रकारतादानमित्यादयः । चेतनाचेतनभावाभावा द्यवान्तरभेदोपेतलानाचेतनादिसमुदायरूपजगतो ज्ञानं विना जगदुद् यादिकर्ता हरिरिति ज्ञानासंभावात् अवान्तरानेकेत्याद्युक्तम् । तथेति । अवान्तरानेकभेदभिन्नत्वेनेत्यर्थ । भगवदवतारकपिलादिकृतसांख्यतत्त्व विवेकपञ्चरात्रादिशास्रादेव अस्तु तज्ज्ञानमित्यतो वा खोत्प्रेक्षितममूल मिदं तत्वसङ्खयानं किमर्थमुच्यत इत्यतो वा विषयादिमत्वप्रदर्शनाय वाऽऽह । तदिदमिति । परमात्मजगदाख्थतत्त्वद्वयमित्यर्थः । तथैव वाच्ये प्रधानाङ्गभूतेत्युक्तिः द्वयोः साम्यव्युदासाय । सङ्गृह्य (प्रतिपाद) व्युत्पादयितुमिति । एतेनास्य शास्त्रविषयादिनैव विषयादिमत्तासिद्धे त्युक्तं भवति । परापरतत्त्वे प्रधानाङ्गभावेन विषयः । तज्ज्ञानद्धारा मुक्तिः फलम् । यथायोगं सम्बन्ध इति ॥ श्री-ननु इदं प्रकरणं-अनारम्भणीयं-विषयाद्यभावात् । न व परापरतत्त्वयोर्विषयता । तज्झानमोक्षयोरवान्तरमुख्यप्रयोजनता । तदर्थ तजिज्ञासुरधिकारी । यथायोग्यै सम्बन्धश्चेति वाच्यम्। परतत्त्वज्ञानमेव मुमुक्षुणा सम्पाद्यमिति सर्वशास्रार्थः नापरतत्त्वज्ञानमपि । तथाचात्र क्रियमाणमपरतत्त्वसङ्गयानै गङ्गावालुकपरिगणनवदिदमपार्थकमेवेत्या ज्ञानविषयीभूतजगदुदयादिनिमित्तत्वेन परमात्मानं मोक्षसाधनमित्यपि सूचितं भवति । का– प्रधानाङ्गभूतमित्युक्तम् । प्रधानभूतार्थस्यैकत्वादेक प्रकरणत्वमिति भाव । प्राधान्यञ्च अन्यजिज्ञासानधीनजिज्ञासाविषय त्वं साक्षान्मुख्यप्रयोजनसाधनत्वं वा । तदङ्गत्वञ्च तज्जिज्ञासाधीन जिज्ञासाविषयत्वं, तद्दारा मुख्यप्रयोजनहेतुत्वं वा ।
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/७२
दिखावट