पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ॥ ॥ श्रीवेदव्यासाय नमः ॥ श्रीमजयतीर्थभिक्षुविरचिता तत्त्वसङ्खयानटीका व्याख्याद्वयोपेता श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक लक्ष्मीहयग्रीवाय नम ॥ हरिः ॐ ॥ स्वतन्त्रमस्वतन्त्रञ्च द्विविधं तत्त्वमिष्यते । खतन्त्रो भगवान्विष्णुः भावाभावौ द्विधेतरत् ॥ १ ॥ टीका । हरिः ॐ ॥ लक्ष्मीपतेःपदाम्भोजयुगं नत्वा गुरोरपि । करिष्ये तत्त्वसङ्खयानव्याख्यानं नातिविस्तरम् । रा-॥ हरिः ॐ ॥ प्रणम्यागण्यकल्याणगुणं श्रीप्राणनायकम् । विवृणोमि यथाबोधं तत्त्वसङ्खयानपश्चिकाम् ॥ ग्रन्थादौ देवतागुरुनतिरूपमङ्गलमाचरञ्चिकीर्षितं प्रतिजानीते । लक्ष्मीपतेरिति । श्री–॥ हरिः ॐ ॥ वन्दे सत्यवतीसूर्नु सञ्चिदानन्दविग्रहम् । श्रीमध्वमुनिसंसेव्यपादपङ्कजमन्वहम् ॥ १ ॥ भजेऽहं श्रीमदानन्दतीर्थायन् देवसेवितान् । जयराजमुनींश्चापि वेदेशाभिधयोगिनः ॥ २ ॥ प्रणम्य यादवाचार्यगुरूणां पादपङ्कजे । तत्वसङ्खयानस्सद्वयाख्याविवृतिः क्रियते मया ॥३॥ इह परमकारुणिकः सर्वज्ञकल्पष्टीकाकारो जयतीर्थश्रीमञ्चरणः तत्त्वसङ्खयानव्याख्यां कर्तुकामः स्वचिकीर्षितग्रन्थस्य निर्विज्ञेन परि समाप्त्यादिप्रयोजनतया शिष्टाचारपरम्परावगतं स्वेष्टदेवतायाः आदि वि–लक्ष्मीपतेरिति लक्ष्मीपतित्वेनोत्कीर्तनं नम्यपदाम्भोजयुगस्य भगवतो विशिष्टाधिकृतत्वसूचनाय ।