पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कसिश्च विषय इत्याकांक्षायामाह सृष्टिरिति । नियमो व्यापारेषु प्रेरणम्। सृष्टिःस्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥१०॥ बन्धो मोक्षः सुखं दुःखं आवृतिज्र्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥११॥ बन्धःप्रकृतेः । मोक्षेो बन्धात् । आवृतिज्योतिषी बाह्यतमःप्रकाशौ । एवकारो विष्णुनेत्यनेन सम्बध्यते । अस्य समस्तस्यास्वतन्त्रस्य भवन्तीति शेषः । नन्वेतत्पूर्वविरुद्धं समस्तस्य सृष्टिसंहारोक्तौ नित्य त्वोक्तिविरोधः । अचेतनस्य बोधविरोधइत्यादि । तत्रोक्तं समासेति । समासः सक्षपः । व्यासो विस्तारः । तावेव योगौ उपायावुक्तार्थ घटनायाम् । तत इदमुत्तं भवति । उक्तधर्मेषु यत्र तत्वेऽल्पीयांसः अत्र सृष्टिपदेन स्रष्टुनिष्ठव्यापारवाचिना जगन्निष्टजन्मग्राह्यम् । स्थिति रन्नादिदानेन रक्षणम् । संहृतिः ध्वंसः । पूर्वविरुद्धतां व्यनक्ति ॥ समस्तस्येति । श्री-क(स्मिन्नाय)स्यायत्तमिति। कस्याधीनमित्यर्थः । अधीनो निझाआयत्त इत्यभिधानात् । विषये आयत्तमिति वर्तते । आहेति । सृष्टयादौ विषये विष्ण्वायत्तमाहेत्यर्थः । प्रकृतेरिति पञ्चमी । बाह्यतमः अन्धकाराख्यम् । बाह्यप्रकाशः आलोकाख्यः । तथा चावृतिशब्देन बाह्यतमो ग्राह्यम् । ज्योतिःशब्देन बाह्यप्रकाशो प्राह्य इत्यर्थः । । भवन्तीति । तथाचास्य समस्तस्यास्वतन्त्रप्रपञ्चस्य सृष्टयाद्याः धर्माः द्वादश ज्योतिरन्ताः विष्णुनैव भवन्तीत्यर्थः । रा-इत्यादीति । अचेतनस्य बन्धमोक्षसुखदुःखाज्ञानविरोध इत्यादिपदार्थः। मोक्षो बद्धस्य ॥इत्यादिद्रष्टव्यमिति॥ आवृतिज्योतिषी सर्वस्येत्यादिपदार्थः । अन्यतोपीति॥ब्रह्मादितोपीयर्थः ।तत्तद्वस्त्विति।। ब्रह्मादिवस्त्वित्यर्थः । यद्वा देशकालादिवस्त्वित्यर्थः । इत्यन्तेन तात्प योंक्तिः ।