टी-एवं सति महदादीनां नित्यानित्यत्वं कथं न स्यादिति चेत्स्यादेवं यदि सूक्ष्मरूपे महदादिव्यवहारःस्यात् किन्तु प्रकृतिरेव सोच्यते । केचिन्महदादिस्वरूपमेव नाभ्युपगच्छन्ति । दूरेणोत्तं किञ्चिदस्पृष्टमिति एकदेशोत्पत्तिव प्रकारान्तरं वा । नाद्यः । तथासति सर्वेषां महदादीनामुत्पन्नत्वस्यैव प्राप्तत्वेन संसृष्टत्वमेव स्यात् । उत्पन्न स्यैव संस्पृष्टशब्दार्थत्वात् । नचैकदेशोत्पत्तावपि एकदेशिनोऽनुत्पतेरुत्प स्रानुत्पन्नरूपत्वेनासंसृष्टत्वमिति वाच्यम् । एकदेशस्य एकदेश्यभिन्नत्वेन तदुत्पत्तौ तस्याप्युत्पत्तेः । तथा च अनुत्पशैकदेश्यभावेन सर्वे तत्त्वं सम्यक् सृष्टमेवेति किञ्चित् सृष्ट किञ्चिदस्मृष्टमित्येवंरूपासंसृष्टं नाम न किञ्चिदस्तीति न द्वैविध्यम् । न द्वितीयः । प्रकारान्तरस्यानिर्वचनादिति । येषां नित्यानि सूक्ष्मरूपाण्येव साक्षादुपादानानि तान्यसंसृष्टानि । येषान्तु विकृतान्येवोपादानानि तानि संसृष्टानीति द्वैविध्योपपत्तिरित्या शयेन समाधत्ते । सूक्ष्मरूपेणेत्यादिना । प्रकृत्याद्यशैरिति । महत्तत्व सूक्ष्मरूपाणां प्रकृत्यंशैस्सत्वादिगुणैरूपचवयः । आदिपदेनाहंकारसूक्ष्म रूपाणां महत्तत्त्वाद्यशैरुपचयइत्यर्थः । नचैवमिति । सूक्ष्मरूपेण नित्यानां ब्रह्माण्डादीनामन्यांशैरुपचयः इत्येवंनहीत्यर्थः । किन्नाम प्रकृत्याद्यशोप चितमहदाद्युपादानकान्येवेति भाव । ननुब्रह्माण्डादीनामपि यत्परम्परा मूलरूपं तस्य नित्यत्वाद्न्यांशैस्तस्योपचयमात्रमेवाङ्गीकृत्यासंसृष्टत्वमेव स्वीक्रियतां न संसृष्टत्वमित्याशयेन शङ्कते ॥ तेषामपीति । मूलरूपं उपादानरूपम् । विवक्षितत्वादिति । नित्यत्वेनेतिशेषः । ब्रह्माण्डा दौतु नैवम् । तत्र साक्षादुपादानभूतस्य विकृतस्य महदादेरनित्यत्वादिति भावः । रा-केचिदिति । तार्किकादयः । उक्तविशेषम् । असंस्पृष्ट त्वादिकम्। उपसर्गद्वयार्थो बहुतरेति । अन्यत्रेति ।
- पञ्चभिः पञ्चभिर्बह्म चतुर्भिर्दशभिस्तथा ।
एतञ्चतुर्विशतिकं गणं प्राधानिकं विदुः ॥ '