सामग्री पर जाएँ

पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ टी-नन्वत्र यस्योत्पत्यादिकं तदनित्यमेव । यस्यतु नास्ति तन्नित्यमेव । नित्यानित्यं कास्तीति । मैवम् । स्यादेतदेवम् । यद्यशांशिनोः विकारविकारिणोर्वा अत्यन्तभेदःस्यात् । नचैवमित्य न्यत्रोपपादितमिति । अनित्यं विभज्य दर्शयति । अनित्यं द्विविधं मतम् ॥८॥ असंस्पृष्टश्च संस्पृष्टम् । सम्यक् पृष्ट सस्पृष्टम् । अतथाभूतं असंसृष्टम् । सम्यक्ताया इयत्ता भावात् त्रैविध्याद्यपि किं नस्यादित्यतो मतमित्युक्तम् । तद्व(चव)- क्ष्यामः । तत्रासंसृष्टं निर्दिशति । रा—अन्यत्रेति । तत्त्वविवेकादौ । श्री-कालप्रकृत्योर्नित्यानित्यत्वमाक्षिपति । नन्वत्रेति । अत्र काले प्रकृतौ च अंशांशिनोरेकदेशैकदेशिनोः । न चैवमिति । तथा चांशांशिनामभेदेन अंशस्य अनित्यत्वे तदभिन्नस्य नित्यस्यांशिनोप्य नित्यत्वम् । विकारस्यानित्यत्वे तदभिन्नस्य नित्यस्याविकारिणः सूक्ष्म भागस्याप्यनित्यत्वमिति नित्यानित्यवस्तुसिद्धिरिति भावः । रा-वक्ष्याम इति ।। सूक्ष्मरूपेणेत्यादिनेति भावः । श्री—त्रैविध्याद्यपीति॥नित्यानित्यवत्सम्यगसम्यक्स्पृष्ट किञ्चि द्वस्त्वङ्गीकृत्येति भावः ॥मतमिति। मननविषयीकृतं युक्तियुक्तमितीति नैकस्मिन्नेव तन्तौ तद्वद्धिरिति भेदश्च । पूर्वोत्तरभावापन्ना अनेके करिण एव करिप्रवाह इति, एकस्मिन्करिणि न प्रवाह इति चाबाधितप्रतीते भेदामेद् एकूत्रप्रेक्षावदनुशिक्षितः संभवति । यथा वा अहिमूषकादीनां स्वभावतो विरोधिनां ऋष्याश्रमे मिश्रीभूयावस्थानं तथात्रापीति न विरोधः । अत्र च चेतनेऽचेतने च यावद्दव्यभाविनां धर्माणां धर्मिणाऽऽ त्वन्तामेदः । चेतन एवायं नियमः । अचेतने यावद्दव्यभाविनामपि मेदामेदौ । नात्यन्तामेद् इति द्वौ पक्षौ । उभयत्रापि बहुमूलटीका