टी-एवं चेतनविभागं विस्तरेणाभिधायावसरप्राप्तमचेतन नित्यानित्यविभागेन त्रिधैवाचेतनं मतम् ॥७॥ अवाप्यचेतनमेवैवंविभागवदित्यर्थानभ्युपगमात्पूर्वोक्ततत्वानामपि प्रमाणान्तरेण नित्यत्वादिग्रहणं न विरुद्धम् । नित्यानित्यविभागेने त्यस्य नित्यानित्यत्वेन तद्विभागेनचेवेत्यर्थः । तथा च नित्यानित्यं नित्यं अनित्यश्वेत्यचेतनं त्रिविधमित्युक्तं भवति । केचित्सर्वं क्षणिकं मन्यमानाः नित्यं न मन्यन्ते । अपरेतु सत्कार्यवादिनोऽनित्यं नाङ्गीकुर्वन्ति । सर्वेऽपि नित्यानित्यं विरोधान्नाभ्युपगच्छन्ति । तन्नि रासायैवकारः । न प्रतिज्ञामात्रेणार्थसिद्धिरिति प्रामाणिकत्वमुक्त विभागस्य सूचयति मतमिति । तच लेशतो दर्शयिष्यामः । श्री—ननु सहकारिविरहप्रयुक्तकार्याभावरूपा योग्यता वनस्थे कोमलद्ण्डादौ दृष्टा । एतादृशी च योग्यता सृतिसंस्थेष्वेवास्ति । नतु प्राप्तान्धतमसेषु । तत्र सहकारिणामेवसत्वेन तद्विरहप्रयुक्तकार्याभावा भावात् । अतः प्राप्तान्धतमसानां कथं तमोयोग्यप्रभेदरूपत्वमित्यत आह ॥ योग्यताया इति । सिद्धान्ते योग्यताशक्तिश्च चैतन्यस्वरूपमेव । तथाच चैतन्यस्वरूपमेव योग्यता न पूर्वोक्ता । यथोक्तम् । “स्वभावारख्या योग्यता या हठाख्या' इति। तथा च प्राप्तान्धतमसेष्वपि चैतन्यस्वरूपस्या नपायेन योग्यताया अनपायात्प्राप्तान्धतमसानामपि तमोयोग्यस्वरूपत्व नानुपपत्रामत्यथः । रा–॥ पूर्वोक्तेति । चेतनानां नित्यत्वं अत्यन्ताभावध्वंसयो नित्यत्वं प्रागभावस्य अनित्यत्वं अन्योन्याभावस्य च यथाधिकरणं नित्य त्वं अनित्यत्वञ्चेत्यादिध्येयमित्यर्थः । सत्कार्येति । कारणं सदेव कार्य कुलालादिव्यापारेण व्यज्यते तत्रैव लीयत इति सत्कार्यवादिनो अनित्यं नेति मन्यन्त इत्यर्थः । सर्वेपीति । वादिन इत्यर्थः ।दर्शयिष्याम इति॥ नित्यादिवस्तुनिर्देशप्रस्ताव इति भावः ।
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२७
दिखावट