वृद्धवसिष्ठसिद्धान्तः । प्रकृत्यनादिसंयोगात् कदाचिज्जातकल्पनः । बहुः स्यामित्यतो जातः प्रकृत्याविष्टचेतनः ॥ १४ ॥ सकर्पणोऽसौ सर्वस्थः सर्वज्ञः परमेश्वरः । प्रकृत्या जनयामास सृट्यादौ है ममण्डकम् ॥ १५ ॥ तदन्तम्तमसा सर्व व्याप्तं ब्रह्मवियागतः । तत्रानिरुद्धः प्रघमं व्यक्तं चैतन्यमुच्यते ॥ १६ ॥ तमोपह: प्रकाशात्मा व्यक्तीभूतः सनातनः । पुंप्रकृत्यः सम़ौपस्यमण्डं हैमं प्रकाशयन् ॥ १७॥ हिरण्यगर्भो भगवांग्छन्दोभिः परिगोयते । आदित्योऽयं समाख्याता जगतामादिभूर्यतः ॥ १८ ॥ प्रसृत्या सूर्य चाख्यातः सविता तमसां परः । पर ज्योति स्त्रिजगता बाह्याभ्यन्तरभासकः ॥ १६ ॥ महानिति समस्तानामाश्रया इतिजन्मनोः । ऋचाऽस्य मण्डलं स्रक्ष्मं मूर्त्त. सामयजुस्तथा ॥ २० ॥ कालात्मा कालकृत् सूक्ष्मः सर्वज्ञः सर्वभूतभृत् । रघे विश्वमयं चक्रं कृत्वा संवत्यरात्मकम् ॥ २१ ॥ सप्ताश्वसंयुतो विश्वं पर्येत्येष सदा वशी । ज्ञानध्यागयुनां पुंसां ब्रह्मान्तं ब्रह्मलोकदम् ॥ २१ ॥ सातस्तस्मादहंकारो नमात्मा सृष्टिलद्विभुः । तस्मै ददौ मेशन देवो वरान् लोकपितामहः ॥ २३ ॥ ८ ▲
पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/८८
दिखावट