२४ सविस्तरायां जैमिनीयन्यायमालायां > > 'विमतं कर्म, अनुष्टेयम् , फलप्रददेवतोपेतत्वात् , राजसेवादिवत्' इत्यनुमानं यद्य- र्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात्। न- त्वेवं विवक्षितम् । किंतु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते । तथा सति प्रशस्तं कर्मानुष्टेयमित्यस्मिन्नर्थे सार्थवादस्य विधेः पर्यवसानादेकवाक्यता लभ्यते । तत्र कुतः सापेक्षत्वम् ? तस्मात् विधिः प्रमाणमिति सिद्धान्तः । इति प्रथममर्थवादाधिकरणम् ॥ १ ॥ अथ द्वितीयं विधिवन्निगदाधिकरणम् ॥ १॥ (१)द्वितीयाधिकरणमारचयति- ऊर्जोऽवरुध्या इत्येष विधिवन्निगदो न किम् । यूपौदुम्बरतां स्तौषि स्तौति वा तद्विधित्सया ॥ ५ चतुर्थ्या फलतालाभासुपौदुम्बरताफलम् । ऊर्जोऽवरोधं कथयन् कथं स्तुतिपरो भवेत् ।। ६ ।। अस्तुतौदुम्बरत्वस्याऽविधानात्कस्य तत्फलम् । अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः ॥ ७ ॥ इदमाम्नायते-(२)"औदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क पशवः, ऊर्जेवा- स्मा ऊर्जं पशूनाप्नोति, ऊर्जोऽवरुध्या” इति । अमृतशब्दाभिधेयोऽत्यन्तसारभूतः सू- क्ष्मोऽन्नरस ऊर्गुच्यते । उदुम्बररूपयोर्जा यजमानार्थमध्वर्युः पशुरूपामूर्जमाप्नोति । ततो यूपस्यौदुम्बरत्वमूर्जस्सम्पादनाय भवतीत्यर्थः । अत्र ‘अवरुध्या' इति तादर्थ्ये चतुर्थी । तया फलत्वं गम्यते । धनलाभाय राजसेवेत्यादौ तद्दर्शनात् । न च फलपरस्य वचनस्य स्तावकत्वं युज्यते । अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्याऽपि १. पूर्वाधिकरगेऽवच्छेदकावच्छेनाऽर्थवादानां स्तुत्यर्थत्वेन प्रामाण्यमभिहितम् । तत्र सिद्धान्तिनोऽर्थवादत्वेनाऽभिमतेषु केषुचिद्वाक्येषु स्तुत्यर्थत्वमाक्षिप्याऽत्र समाधीयत इति पूर्वाधिकरगेनाऽस्याऽऽक्षेपिकी सङ्गतिर्बोध्या। २. वाक्यमिदं तैत्तिरीयसंहितायां द्वितीयकाण्डप्रथमप्रश्नस्य प्रथमानुवाके 'सोमा- पोष्णं तमालभेत पशुकामः' इति वाक्यविहितकाम्यपशुयागसन्निधावाम्नातम् । त्रयाणां वत्सानां युगपज्जातानां समुदायस्त्रितम् । तत्र भवस्त्रैतः इति व्युत्पत्त्या या अजा युग- पद्वत्सत्रयं प्रसूते तेष्वेकैकोऽपि त्रैत इत्यभिधीयते ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२५
दिखावट