पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३६ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३.पा.८. अधि.२३ > तरसाः सवनीयाः स्युरिति तत्सन्निधिः श्रुतः। पुरोडाशस्य मांसत्वं तेष्वेवाऽतो नियम्यते ॥ ३४ ॥ षट्त्रिंशत्सु संवत्सरेष्वनुष्टेयं शाक्यानामयनम् । तत्र श्रूयते-(१) “संस्थि- तेऽहनि गृहपतिर्मृगयां याति, स यान्मृगान्हन्ति, तेषां तरसाः सवनीयाः पुरोडाशा भवन्ति' इति । तत्र यथा नवनीतं सर्वेष्वङ्गेषु निविष्टम् , तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते इति चेत्- मैवम् ; तदा हि 'ये पुरोडाशास्ते तरसाः' इति वचनव्यक्तौ व्यवहितान्वयः स्यात् । तरसशब्दपुरोडाशशब्दयोर्मध्ये सवनीयशब्देन व्यवधानात् । इह तु 'तर. साः, सवनीयाः" इत्यनयोः सन्निधिः श्रूयते । तथासति 'ये सवनीयास्ते तरसाः' इत्यनेन सन्निध्यनुगृहीतेन वाक्येन मांसत्वं सवनीयपुरोडाशेष्वेव नियम्यते ॥ इति त्रयोविंशं सवनीयपुरोडाशस्य मांसमयत्वाधिकरणम् ॥ २३ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्याऽष्टमः पादः॥ ८ ॥ समाप्तश्चाऽयं तृतीयोऽध्यायः ॥ ३॥ १. आप. श्री. २३. ११. १२, १३. संस्थिते समाप्ते, अहनि अहस्साध्ये क्रिया कलापे। तरसं मांसम् । प्रतिदिनं तदहःकृत्यं परिसमाप्य गृहपतिः मृगयां गत्वा तत्र हतान् मृगानानीय तेषां मांसैः श्वोभूते सवनीयपुरोडाशान् कृत्वा तैर्यजेत इति विषयवाक्यार्थः॥ प्राप्तिस्थानम्- चौखम्बा संस्कृत पुस्तकालय, , बनारस सिटी।