पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शेषनिधानाधिकरणम् ] तृतीयोऽध्यायः । २३३ - अथाऽष्टादशं लवनस्याऽसर्वार्थताधिकरणम् ॥ १८ ॥ अष्टादशाधिकरणमारचयति- यदर्हिस्तत्पवित्रार्थ न वाऽऽद्यस्तस्य सम्भवात् । संस्कृतं स्तरणं क्षीणं पवित्रं त्वन्यतो भवेत् ॥ २५ ॥ दर्शपूर्णमासयोरामनन्ति-(१)“समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति' इति । तत्र यदेतद्वेदिस्तरणार्थं लवनसंस्कृतं बर्हिः, तेन पवित्रसम्भवादास्तर- णवत्पवित्रमपि बर्हिषः कार्यम् इति चेत्- मैवम् ; आस्तरण एव संस्कृतस्य सर्वस्य बहिष उपक्षीणत्वात् । न हि 'वेदि स्तृणाति' इति विहितस्य स्तरणस्याऽकस्माद्बर्हिरेकदेशे सङ्कोचो युक्तः । तस्मात् यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्कार . रहितैः परिभोजनीयनामकैर्दर्भैः सम्पादनीया ॥ इत्यष्टादशं लवनस्याऽसर्वार्थताधिकरणम् ॥ १८ ॥ अथैकोनविंशं शेषनिधानाधिकरणम् ॥ १६ ॥ एकोनविंशाधिकरणमारचयति- पुरोडाशस्य शकलमैन्द्रवायवपात्रके । अवदध्यात्पुरोडाशो नवोऽथ सवनीयकः ॥ २६ ॥ सिद्धस्य यजनार्थत्वान्नवं संपाद्य तत्क्रिया। सवनीयेन तत्कार्य संस्कार्यत्वाद्वितीयया ॥ २७ ॥ ज्योतिष्टोमे श्रूयते-(२)"पुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधाति" इति । तत्र सवनीयपुरोडाशस्य शकलं यद्यपि निष्पन्नम् , तथाऽपि तस्य यजनार्थत्वेन सं. स्कृतबर्हिर्वदुपक्षयान्नूतनं कंचित्पुरोडाशं सम्पाद्य तदीयशकलस्यैन्द्रवायवपात्रप्रक्षेप. क्रिया कर्तव्या इति चेत्- मैवम् ; सवनीयपुरोडाशशकलेनैतन्निधानं कर्तव्यम्। कुतः ? संस्कार्यत्वात् । १. आप. श्री. १. ११. ६. साम्यं पृथुत्वे । २. आप. श्री. १२. २५. ६. ऐन्द्रवायवग्रहस्य भक्षणानन्तरं अप्रक्षालित एव तस्मिन् सवनीयपुरोडाशस्य यागे उपयुक्तस्य खण्डं निक्षिपेदित्यर्थः । एवमग्रेऽपि ।