पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३० सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ८. अधि. १४ अथ द्वादशं प्रैषप्रैषार्थयोभिर्न्नकर्तृकत्वाधिकरणम् ॥ १२ द्वादशाधिकरणमारचयति- प्रोक्षण्यासादनं कुर्यादध्वर्युरितरोऽथवा । आख्ययाऽऽद्यः सादयेति प्रेपितोऽन्योऽस्तु लिङ्गतः ॥१८॥ दर्शपूर्णमासयोः प्रोक्षणीनां केनचित्पात्रेण वेद्यामासादनं श्रुतम् । तदेतद्यजुर्वे. दोक्तत्वादाध्वर्यवम् इति चेत्- मैवम् ; प्रैषमन्त्रविरोधप्रसङ्गात् । “प्रोक्षणीरासादय, इध्माबर्हिरुपसादय” “अग्नी- दग्नीन्विहर, बर्हिः स्तृणीहि” इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नीध्रसम्बोधनं मध्यमपुरुषश्चाऽन्येन तदनुष्ठाने सत्युपपद्यते । तस्मात् नाऽऽध्वर्यवम् ॥ इति द्वादशं प्रैषप्रैषार्थयोर्भिन्नकर्तृकत्वाधिकरणम् ॥ १२ ॥ अथ त्रयोदशं प्रैषस्याऽऽध्वर्यवत्वाधिकरणम् ॥ १३ ॥ त्रयोदशाधिकरणमारचयति- अग्नीत्प्रेष्येदुताध्वर्युरग्नीदस्त्वविरोधतः। आख्याविरोधादध्वर्युः प्रैषद्वाराऽर्थकृद्यतः ॥ १६ ॥ यथा प्रोक्षणीराग्नीध्र आसादयति, तथा प्रैषमन्त्रमप्याग्नीध्न एव पठतु विरोधाभा- वात् इति चेत् मैवम् ; आध्वर्यवसमाख्यायाः पूर्वोदाहृतसम्बोधनमध्यमपुरुषयोश्च विरोधात् । न च प्रोक्षण्यासादनादीनामध्वर्युकर्तृकत्वाभावेऽपि समाख्याविरोधस्तदवस्थ इति वा- च्यम् । प्रैषद्वारा प्रयोजककर्तृत्वेऽपि तदविरोधात् । तस्मात् अध्वर्यो रेव प्रैषमन्त्रः ॥ इति त्रयोदशं प्रैषस्याऽऽध्वर्यवत्वाधिकरणम् ॥ १३ ॥ अथ चतुर्दशं करणमन्त्रप्रकाश्यफलस्य याजमानताधिकरणम् ॥१४॥ चतुर्दशाधिकरणमारचयति- ममाग्न इति कस्याऽत्र फलं लिङ्गेन वक्तृगम् । श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् ॥२०॥