पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ सविस्तरायां जैमिनीयन्यायमालायां काठकम् , कौथुमम् , तैत्तिरीयकभित्यादिसमाख्या तत्तद्वेदविषया लोके दृष्टा । तद्धितप्रत्ययश्च (१)"तेन प्रोक्तम्" इत्यर्थे वर्तते । तथा सति व्यासेन प्रोक्तं वैयासिकं भारतमित्यादाविव पौरुषेयत्वं प्रतीयते । किंच 'विमतं वेदवाक्यं पौरुषेयम् , वाक्य- त्वात् , कालिदासादिवाक्यवत्' इति प्राप्ते- ब्रूमः-अध्ययनसम्प्रदायप्रवर्तकत्वेन समाख्योपपद्यते । कालिदासादिग्रन्थेषु तत्त- त्सर्गावसाने कर्तार उपलभ्यन्ते । तथा वेदस्याऽपि पौरुषेयत्वे तत्कर्तोपलभ्येत । न चोप- लभ्यते । अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः । तस्मादपोरुषेयो वेदः । तथा सति पुरुषबुद्धिदोषकृतस्याऽप्रामाण्यस्याऽनाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थम् ॥ इत्यष्टमं वेदापौरुषेयत्वाधिकरणम् ॥ ८ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः ॥ १॥ अथ प्रथमाध्याये द्वितीयः पादः ॥ प्रथममर्थवादाधिकरणम् ॥ १॥ द्वितीयपादस्य प्रथमाधिकरणमारचयति- वायुर्वा इत्येवमादेरर्थवादस्य मानता । न विधेयेऽस्ति धर्म किं किंवाऽसौ तत्र विद्यते ॥ १॥ विध्यर्थवादशब्दानां मिथोपेक्षापरिक्षयात् । नाऽस्त्येकवाक्यता धर्मे प्रामाण्यं सम्भवेत्कुतः ॥ २ ॥ विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः । तेनैकवाक्यता तस्माद्वादानां धर्ममानता ॥ ३ ॥ काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते । (२) “वायव्यं श्वेतमालभेत भूतिकामः" इति विधिः । “वायुर्वै क्षेपिष्टा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं १. पा. सू. ४. ३. १०१. २ तैत्तिरीयसंहितायां द्वितीयप्रथमप्रथमे (२. १. १.) श्रुतमिदं वाक्यम् । वायव्यं वायुर्देवता अस्येति व्युत्पत्त्या वायुदेवताकं, श्वेतं श्वेतगुणकं पशुं छागं भूति कामः धनकामः आलभेत । तथा च धनकामनावान् पुरुषः वायुदेवताकश्वेतपशुद्र- व्यकयागेन भूतिं सम्पादयेदिति विधिवाक्यार्थः ।